धियः समग्रैः स गुणैरुदारधीः
क्रमाञ्चतस्रश्चतुरर्णवोपमाः ।
ततार विद्याः पवनातिपातिभि-
र्दिशो हरिद्भिर्हरितामिवेश्वरः ॥

अन्वयः AI उदार-धीः सः समग्रैः धियः गुणैः (युक्तः सन्) क्रमात् चतुः-अर्णव-उपमाः चतस्रः विद्याः, हरिताम् ईश्वरः (सूर्यः) पवन-अतिपातिभिः हरिद्भिः दिशः इव, ततार ।
सञ्जीविनीटीका (मल्लिनाथः) धिय इति॥ अत्र कामन्दकः-शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा। ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः॥ इति। आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती। एता विद्याश्चतस्रस्तु लोकसंस्थितिहेतवः॥ इति च। उदारधीरुत्कृष्टबुद्धिः स रघुः समग्रैर्धियो गुणैः। चत्वारोऽर्णवा उपमा यासां ताश्चतुरर्णवोपमाः। तद्धितार्थोत्तरपदसमाहारे च (अष्टाध्यायी २.१.४१ ) इत्युत्तरपदसमासः। चतस्रो विद्याः। हरितां दिशामीश्वरः सूर्यः पवनातिपातिभिर्हरिद्भिर्निजाश्वैः। हरित्ककुभि वर्णे च तृणवाजिविशेषयोः इति विश्वः। चतस्रो दिश इव। क्रमात्ततार। चतुरर्णवोपमत्वं दिशामपि द्रष्टव्यम् ॥
Summary AI That noble-minded prince, endowed with all the qualities of intellect, successively mastered the four great branches of knowledge, which are as vast as the four oceans. He did so with great speed, just as the Sun, the lord of the directions, traverses the quarters with his horses that outstrip the wind.
सारांश AI अपनी कुशाग्र बुद्धि से रघु ने चारों विद्याओं को वैसे ही शीघ्रता से आत्मसात कर लिया, जैसे सूर्य अपने तीव्रगामी घोड़ों से चारों दिशाओं को पार कर लेते हैं।
पदच्छेदः AI
धियःधी (६.१) of intellect
समग्रैःसमग्र (३.३) with all
सःतद् (१.१) he
गुणैःगुण (३.३) qualities
उदारधीःउदारधी (१.१) the noble-minded one
क्रमात्क्रम (५.१) successively
चतस्रःचतुर् (२.३) the four
चतुरर्णवोपमाःचतुर्अर्णवउपमा (२.३) which are comparable to the four oceans
ततारततार (√तॄ कर्तरि लिट् (परस्मै.) प्र.पु. एक.) crossed
विद्याःविद्या (२.३) branches of knowledge
पवनातिपातिभिःपवनअतिपातिन् (३.३) by those that outstrip the wind
दिशःदिश् (२.३) the directions
हरिद्भिःहरित् (३.३) with his horses
हरिताम्हरित् (६.३) of the directions
इवइव like
ईश्वरःईश्वर (१.१) the lord (the Sun)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
धि यः ग्रैः गु णै रु दा धीः
क्र मा ञ्च स्र श्च तु र्ण वो माः
ता वि द्याः ना ति पा ति भि
र्दि शो रि द्भि र्ह रि ता मि वे श्व रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.