अथास्य गोदानविधेरनन्तरं
विवाहदीक्षां निरवर्तयद्गुरुः ।
नरेन्द्रकन्यास्तमवाप्य सत्पतिं
तमोनुदं दक्षसुता इवाबभुः ॥

अन्वयः AI अथ अस्य गोदानविधेः अनन्तरम् गुरुः विवाहदीक्षाम् निरवर्तयत्। नरेन्द्रकन्याः तम् सत्पतिम् अवाप्य, तमोनुदम् (अवाप्य) दक्षसुताः इव आबभुः।
सञ्जीविनीटीका (मल्लिनाथः) अथेति॥ गौर्नादित्ये बलीवर्दे क्रतुभेदर्षिभेदयोः। स्त्त्री तु स्याद्दिशि भारत्यां भूमौ च सुरभावपि॥ पुंस्त्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमसु॥ इति केशवः। गावो लोमानि केशा दीयन्ते खण्ड्यन्तेऽस्मिन्निति व्युत्पत्त्या गोदानं नाम ब्राह्मणादीनां षोडशादिषु वर्षेषु कर्तव्यं केशान्ताख्यं कर्मोच्यते। तदुक्तं मनुना(२।६५)-केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते। राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके ततः॥ इति। अथ गुरुः पिता। गुरू गीष्पतिपित्राद्यौ इत्यमरः। अस्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयत्। कृतवानित्यर्थः। अथ नरेन्द्रकन्यास्तं रघुम्। दक्षस्य सुता रोहिण्यादयस्तमोनुदं चन्द्रमिव। तमोनुदोऽग्निचन्द्रार्काः इति विश्वः। सत्पतिमवाप्त्याबभुः। रघुरपि तमोनुत्। अत्र मनुः(३।२)-वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम्। अविप्लुतब्रह्मचर्ये गृहस्थाश्रममाविशेत्॥ इति॥
Summary AI Then, after his Godana ceremony, his father performed the rites of marriage for him. The princesses, having obtained him as their noble husband, shone brightly, just as the daughters of Daksha (the constellations) shine upon obtaining the moon, the dispeller of darkness.
सारांश AI गोदान संस्कार के बाद पिता ने उनका विवाह संस्कार संपन्न किया। श्रेष्ठ पति रघु को प्राप्त कर राजकुमारियाँ वैसी ही सुशोभित हुईं जैसे चंद्रमा को पाकर दक्ष की कन्याएँ।
पदच्छेदः AI
अथअथ Then
अस्यइदम् (६.१) his
गोदानविधेःगोदानविधि (५.१) after the Godana ceremony
अनन्तरम्अनन्तर after
विवाहदीक्षाम्विवाहदीक्षा (२.१) the consecration of marriage
निरवर्तयत्निरवर्तयत् (निस्√वृत् +णिच् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) performed
गुरुःगुरु (१.१) his father (Dilipa)
नरेन्द्रकन्याःनरेन्द्रकन्या (१.३) the princesses
तम्तद् (२.१) him
अवाप्यअवाप्य (अव√आप्+ल्यप्) having obtained
सत्पतिम्सत्पति (२.१) a noble husband
तमोनुदम्तमस्नुद (२.१) the dispeller of darkness (the Moon)
दक्षसुताःदक्षसुता (१.३) the daughters of Daksha (constellations)
इवइव like
आबभुःआबभुः (आ√भा कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) shone
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
था स्य गो दा वि धे न्त रं
वि वा दी क्षां नि र्त द्गु रुः
रे न्द्र न्या स्त वा प्य त्प तिं
मो नु दं क्ष सु ता वा भुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.