युवा युगव्यायतबाहुरंसलः
कपाटवक्षाः परिणद्धकंधरः ।
वपुः प्रकर्षादजयद्गुरुं रघु-
स्तथापि नीचौर्विनयाददृश्यत ॥

अन्वयः AI युवा युगव्यायतबाहुः अंसलः कपाटवक्षाः परिणद्धकंधरः रघुः वपुःप्रकर्षात् गुरुम् अजयत्। तथापि विनयात् नीचैः अदृश्यत।
सञ्जीविनीटीका (मल्लिनाथः) युवति॥ युवा। युगो नाम धुर्यस्कन्धगः सच्छिद्रप्रान्तो यानाङ्गभूतो दारुविशेषः। यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु इत्यमरः (अमरकोशः ३.३.३० ) । युगवद्व्यायतौ दीर्घौ बाहू यस्य सः। अंसावस्य स्त इत्यंसलो बलवान्। मांसलश्चेति वृत्तिकारः। बलवान्मांसलोंऽसलः इत्यमरः (अमरकोशः २.६.४४ ) वत्सांसाभ्यां कामबले (अष्टाध्यायी ५.२.९८ ) इति लच्प्रत्ययः। कपाटवक्षाः परिणद्धकंधरो विशालग्रीवः। परिणाहो विशालता इत्यमरः (अमरकोशः २.६.११५ ) । रघुर्वपुषः प्रकर्षादाधिक्याद्यौवनकृताद्गुरुं पितरमजयत्। तथापि विनयान्नम्रत्वेन नीचैरल्पकोऽदृश्यत॥ अनौद्धत्यं च विवक्षितम्॥
Summary AI The young Raghu, with arms as long as a yoke, strong shoulders, a broad chest, and a thick neck, surpassed his father in physical excellence. Yet, due to his humility, he always appeared modest.
सारांश AI विशाल भुजाओं और चौड़े वक्षस्थल वाले रघु शारीरिक सौष्ठव में अपने पिता से भी आगे निकल गए, फिर भी स्वाभाविक विनय के कारण वे सदैव विनम्र ही दिखाई देते थे।
पदच्छेदः AI
युवायुवन् (१.१) Young
युगव्यायतबाहुःयुगव्यायतबाहु (१.१) with arms as long as a yoke
अंसलःअंसल (१.१) strong-shouldered
कपाटवक्षाःकपाटवक्षस् (१.१) with a chest like a door-panel
परिणद्धकंधरःपरिणद्धकंधर (१.१) with a thick neck
वपुःप्रकर्षात्वपुस्प्रकर्ष (५.१) due to the excellence of his body
अजयत्अजयत् (√जि कर्तरि लङ् (परस्मै.) प्र.पु. एक.) he surpassed
गुरुम्गुरु (२.१) his father
रघुःरघु (१.१) Raghu
तथापितथापि yet
नीचैःनीचैस् humbly
विनयात्विनय (५.१) due to humility
अदृश्यतअदृश्यत (√दृश् भावकर्मणोः लङ् (आत्मने.) प्र.पु. एक.) he appeared
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
यु वा यु व्या बा हु रं लः
पा क्षाः रि द्ध कं रः
पुः प्र र्षा द्गु रुं घु
स्त था पि नी चौ र्वि या दृ श्य
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.