ततः प्रजानां चिरमात्मना धृतां
नितान्तगुर्वीं लघयिष्यता धुरम् ।
निसर्गसंस्कारविनीत इत्यसौ
नृपेण चक्रे युवराजशब्दभाक् ॥

अन्वयः AI ततः, प्रजानाम् चिरम् आत्मना धृताम् नितान्तगुर्वीम् धुरम् लघयिष्यता नृपेण, असौ 'निसर्गसंस्कारविनीतः' इति युवराजशब्दभाक् चक्रे।
सञ्जीविनीटीका (मल्लिनाथः) तत इति॥ तत आत्मना चिरं धृतां नितान्तगुर्वीम्। वोतो गुणवचनात् (अष्टाध्यायी ४.१.४४ ) इति ङीष्। प्रजानां धुरं पालनप्रयासं लघयिष्यता लघुं करिष्यता। तत्करोति तदाचष्टे(ग.२०४) इति लघुशब्दाण्णिच्। ततो लृटः सद्वा (अष्टाध्यायी ३.३.१८ ) इति शतृप्रत्ययः। नृपेण दिलीपेन। असौ रघुर्निसर्गेण स्वभावेन संस्कारेण शास्त्त्राभ्यासजनितवासनया च विनीतो नम्र इति हेतोः। युवराज इति शब्दं भजतीति तथोक्तः। भजो ण्विः (अष्टाध्यायी ३.२.६२ ) इति ण्विप्रत्ययः। चक्रे कृतः। द्विविधो विनयः स्वाभाविकः कृत्रिमश्च इति कौटिल्यः। तदुभयसंपन्नत्वात्पुत्रं युवराजं चकारेत्यर्थः। अत्र कामन्दकः-विनीयोपग्रहान्भूत्यै कुर्वीत नृपतिः सुतान्। अविनीतकुमारं हि कुलमाशु विशीर्यते ॥ विनीतमौरसं पुत्रं यौवराज्येऽभिषेचयेत्॥ इति ॥
Summary AI Then, the king (Dilipa), wishing to lighten the extremely heavy burden of ruling which he had long borne, made Raghu the crown prince, thinking, 'He is modest by both nature and training.'
सारांश AI प्रजा-पालन के भारी दायित्व को हल्का करने के उद्देश्य से, राजा दिलीप ने स्वाभाविक रूप से संस्कारित और विनयी रघु को युवराज पद पर प्रतिष्ठित किया।
पदच्छेदः AI
ततःततस् Then
प्रजानाम्प्रजा (६.३) of the subjects
चिरम्चिर for a long time
आत्मनाआत्मन् (३.१) by himself
धृताम्धृत (√धृ+क्त, २.१) borne
नितान्तगुर्वीम्नितान्तगुर्वी (२.१) extremely heavy
लघयिष्यतालघयिष्यत् (√लघु+णिच्+शतृ, ३.१) by him who wished to lighten
धुरम्धुर् (२.१) the yoke (of responsibility)
निसर्गसंस्कारविनीतःनिसर्गसंस्कारविनीत (१.१) modest by nature and training
इतिइति thinking thus
असौअदस् (१.१) he (Raghu)
नृपेणनृप (३.१) by the king (Dilipa)
चक्रेचक्रे (√कृ भावकर्मणोः लिट् (आत्मने.) प्र.पु. एक.) was made
युवराजशब्दभाक्युवराजशब्दभाज् (१.१) bearer of the title 'Yuvaraja'
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
तः प्र जा नां चि मा त्म ना धृ तां
नि ता न्त गु र्वीं यि ष्य ता धु रम्
नि र्ग सं स्का वि नी त्य सौ
नृ पे क्रे यु रा ब्द भाक्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.