दिवं मरुत्वानिव भोक्ष्यते भुवं
दिगन्तविश्रान्तरथो हि तत्सुतः ।
अतोऽभिलाषे प्रथमं तथाविधे
मनो बवन्धान्यरसान्विलङ्घ्य सा ॥

अन्वयः AI हि तत्-सुतः दिगन्त-विश्रान्त-रथः (सन्) मरुत्वान् दिवम् इव भुवम् भोक्ष्यते । अतः सा अन्य-रसान् विलङ्घ्य प्रथमम् तथाविधे अभिलाषे मनः बबन्ध ।
सञ्जीविनीटीका (मल्लिनाथः) दिवमिति॥ हि यस्माद्दिगन्तविश्रान्तरथश्चक्रवर्ती तस्याः सुतस्तत्सुतः। मरुत्वानिन्द्रः। इन्द्रो मरुत्वान्मघवा इत्यमरः (अमरकोशः १.१.५१ ) । दिवं स्वर्गमिव। भुवं भोक्ष्यते। भुजोऽनवने (अष्टाध्यायी १.३.३६ ) इत्यात्मनेपदम्। अतः प्रथमं सा सुदक्षिणा तथा मृद्रूपे। अभिलष्यत इत्यभिलाषो भोग्यवस्तु। कर्मणि घञ्प्रत्ययः। रस्यन्ते स्वाद्यन्तविधे भूविकारे इति रसा भोग्यार्थाः। अन्ये च ते रसाश्च तान्विलङ्घ्य विहाय मनो बबन्ध। विदधावित्यर्थः। दोहदहेतुकस्य मृद्भक्षणस्य पुत्रभूभोगसूचनार्थत्वमुत्प्रेक्षते ॥
Summary AI 'Indeed, her son, with his chariot reaching the ends of the earth, will rule the world just as Indra rules heaven.' Therefore, disregarding all other tastes, she first fixed her mind on a desire of that kind (i.e., a craving befitting the mother of such a hero).
सारांश AI उनका पुत्र इंद्र के समान पृथ्वी का शासन करेगा, यह जानकर रानी सुदक्षिणा ने अन्य साधारण इच्छाओं को त्यागकर केवल उसी विशिष्ट और महान अभिलाषा में अपना मन लगाया।
पदच्छेदः AI
दिवंदिव् (२.१) heaven
मरुत्वान्मरुत्वत् (१.१) Indra
इवइव like
भोक्ष्यतेभोक्ष्यते (√भुज् कर्तरि लृट् (आत्मने.) प्र.पु. एक.) will rule
भुवंभु (२.१) the earth
दिगन्तविश्रान्तरथोदिगन्तविश्रान्तरथ (१.१) he whose chariot is unobstructed to the ends of the quarters
हिहि for
तत्सुतःतत्सुत (१.१) her son
अतःअतः therefore
अभिलाषेअभिलाष (७.१) on the desire
प्रथमंप्रथमम् first
तथाविधेतथाविध (७.१) of that kind
मनःमनस् (२.१) her mind
बबन्धबबन्ध (√बन्ध् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) fixed
अन्यरसात्अन्यरस (२.३) other tastes
विलङ्घ्यविलङ्घ्य (वि√लङ्घ्+ल्यप्) having disregarded
सातद् (१.१) she
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
दि वं रु त्वा नि भो क्ष्य ते भु वं
दि न्त वि श्रा न्त थो हि त्सु तः
तो ऽभि ला षे प्र मं था वि धे
नो न्धा न्य सा न्वि ङ्घ्य सा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.