अतोऽयमश्वः कपिलानुकारिणा
पितुस्त्वदीयस्य मयापहारितः ।
अलं प्रयत्नेन तवात्र मा निधाः
पदं पदव्यां सगरस्य संततेः ॥

अन्वयः AI अतः कपिल-अनुकारिणा मया त्वदीयस्य पितुः अयम् अश्वः अपहारितः। तव अत्र प्रयत्नेन अलम्। सगरस्य संततेः पदव्याम् पदम् मा निधाः।
सञ्जीविनीटीका (मल्लिनाथः) अत इति। अतोऽहमेव शतक्रतुरतस्त्वदीयस्य पितुरयं शततमोऽश्वः कपिलानुकारिणा कपिलमुनितुल्येन मयाऽपहारितोऽपहृतः। अपहारित इति स्वार्थे णिच्। तवात्राश्वे प्रयत्नेनालम्;प्रयत्नो माकारीत्यर्थः। निषेध्यस्य निषेधं प्रति करणत्वात्तृतीया। सगरस्य राज्ञः संततेः संतानस्य पदव्यां पदं मा निधा न निधेहि। निपूर्वाद्धाधातोर्लुङ्। न माङ्योगे (अष्टाध्यायी ६.४.७४ ) इत्यडागमप्रतिषेधः। महदास्कन्दनं ते विनाशमूलं भवेदिति भावः ॥
Summary AI 'Therefore, imitating the sage Kapila, I have stolen this horse of your father. Enough of your effort in this matter. Do not place your foot on the same path as the descendants of Sagara (who perished searching for their horse).'
सारांश AI 'इसीलिए मैंने कपिल मुनि का अनुसरण करते हुए तुम्हारे पिता का यह घोड़ा चुराया है। अब तुम व्यर्थ प्रयास मत करो और सगर के पुत्रों के मार्ग पर कदम मत रखो।'
पदच्छेदः AI
अतःअतस् Therefore
अयम्इदम् (१.१) this
अश्वःअश्व (१.१) horse
कपिलानुकारिणाकपिलअनुकारिन् (३.१) by me who am imitating Kapila
पितुःपितृ (६.१) of the father
त्वदीयस्यत्वदीय (६.१) your
मयाअस्मद् (३.१) by me
अपहारितःअपहारित (अप√हृ+णिच्+क्त, १.१) has been stolen
अलम्अलम् Enough
प्रयत्नेनप्रयत्न (३.१) with the effort
तवयुष्मद् (६.१) your
अत्रअत्र in this matter
मामा do not
निधाःनिधाः (नि√धा कर्तरि लुङ् (परस्मै.) म.पु. एक.) place
पदम्पद (२.१) foot
पदव्याम्पदवी (७.१) on the path
सगरस्यसगर (६.१) of Sagara
संततेःसंतति (६.१) of the descendants
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
तो ऽय श्वः पि ला नु का रि णा
पि तु स्त्व दी स्य या हा रि तः
लं प्र त्ने वा त्र मा नि धाः
दं व्यां स्य सं तेः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.