ततः प्रहस्यापभयः पुरंदरं
पुनर्बभाषे तुरगस्य रक्षिता ।
गृहाण शस्त्त्रं यदि सर्ग एष ते
न खल्वनिर्जित्य रघुं कृती भवान् ॥

अन्वयः AI ततः अपभयः तुरगस्य रक्षिता प्रहस्य पुरंदरम् पुनः बभाषे । यदि एषः ते सर्गः (अस्ति), (तर्हि) शस्त्रम् गृहाण । रघुम् अनिर्जित्य भवान् खलु कृती न (भविष्यति) ।
सञ्जीविनीटीका (मल्लिनाथः) तत इति॥ ततस्तुरगस्य रक्षिता रघुः प्रहस्य प्रहासं कृत्वा। अपभयो निर्भीकः सन्। पुनः पुरंदरं बभाषे। किमिति? हे देवेन्द्र! यद्येषोऽश्वामोचनरूपस्ते तव सर्गो निश्चयः। सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु इत्यमरः (अमरकोशः ३.३.२७ ) । तर्हि शस्त्रं गृहाण। भवान् रघुं मामनिर्जित्य। कृतमनेनेति कृती। कृतकृत्यो न खलु। इष्टादिभ्यश्च (अष्टाध्यायी ५.२.८८ ) इतीनिप्रत्ययः। रघुमित्यनेनात्मनो दुर्जयत्वं सूचितम्॥
Summary AI Then, the fearless protector of the horse (Raghu), laughing, spoke again to Indra. "If this is your resolve, then take up your weapon. Indeed, you will not be successful without conquering Raghu."
सारांश AI तब घोड़े के रक्षक रघु ने निर्भय होकर हँसते हुए इंद्र से कहा, 'यदि आपका यही निश्चय है, तो शस्त्र उठाइए। रघु को बिना जीते आप सफल नहीं हो सकते।'
पदच्छेदः AI
ततःततः Then
प्रहस्यप्रहस्य (प्र√हस्+ल्यप्) having laughed
अपभयःअपभय (१.१) fearless
पुरंदरम्पुरंदर (२.१) to Purandara (Indra)
पुनःपुनर् again
बभाषेबभाषे (√भाष् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) spoke
तुरगस्यतुरग (६.१) of the horse
रक्षितारक्षितृ (१.१) the protector (Raghu)
गृहाणगृहाण (√ग्रह् कर्तरि लोट् (परस्मै.) म.पु. एक.) Take
शस्त्रम्शस्त्र (२.१) weapon
यदियदि if
सर्गःसर्ग (१.१) resolve
एषःएतद् (१.१) this
तेयुष्मद् (६.१) your
not
खलुखलु indeed
अनिर्जित्यनिर्जित्य (निर्√जि+ल्यप्) without conquering
रघुम्रघु (२.१) Raghu
कृतीकृतिन् (१.१) successful
भवान्भवत् (१.१) you
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
तः प्र स्या यः पु रं रं
पु र्ब भा षे तु स्य क्षि ता
गृ हा स्त्त्रं दि र्ग ते
ल्व नि र्जि त्य घुं कृ ती वान्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.