Loading data... On slow networks this could take a few minutes.
100%

उपेत्य सा दोहददुःखशीलतां
यदेव वव्रे तदपश्यदाहृतम् ।
न हीष्टमस्य त्रिदिवेऽपि भूपते-
रभूदनासाद्यमधिज्यधन्वनः ॥

अन्वयः AI सा दोहद-दुःख-शीलताम् उपेत्य यत् एव वव्रे, तत् आहृतम् अपश्यत् । हि अधिज्य-धन्वनः अस्य भूपतेः इष्टम् त्रिदिवे अपि अनासाद्यम् न अभूत् ।
सञ्जीविनीटीका (मल्लिनाथः) उपत्येति॥ दोहदं गर्भिणीमनोरथः। दोहदं दौर्हृदं श्रद्धा लालसं च समं स्मृतम् इति हलायुधः। सा सुदक्षिणा दोहदेन गर्भिणीमनोरथेन दुःखशीलतां दुःखस्वभावतामुपेत्य प्राप्य यद्वस्तु वव्र आचकाङ्क्ष तदाहृतमानीतम्। भर्त्रेति शेषः। अपश्यदेव। अलभतेत्यर्थः। कुतः? हि यस्मादस्य भूपतेस्त्त्रिदिवेऽपि स्वर्गेऽपीष्टं वस्त्वनासाद्यमनवाप्यं नाभूत्। किं याञ्चया? नेत्याह-अधिज्यधन्वन इति। न हि वीरपत्नीनामलभ्यां नाम किंचिदस्तीति भावः। अत्र वाग्भटः (अ.हृ.शा।१।५२)पादशोफो विदाहोऽन्ते श्रद्धा च विवधात्मिकाइति। एतञ्च पत्मीमनोरथपूरणाकरणे दृष्टदोषसंभवात्, न तु राज्ञः प्रीतिलौल्यात्। तदुक्तम्(अ.हृ.शा.१।५३)-देयमप्यहितं तस्यै हिताय हितमल्पकम्। श्रद्धाविघाते गर्भस्य विकृतिश्च्युतिरेव वा॥ अन्यत्र च-दोहदस्याप्रदानेन गर्भो दोषमवाप्नुयात् इति ॥
Summary AI Having reached the state of unease from pregnancy cravings, whatever she chose, she saw it brought before her. Indeed, for this king, whose bow was always strung, nothing he desired was unattainable, even in heaven.
सारांश AI गर्भ की अवस्था में सुदक्षिणा ने जो भी इच्छा की, वह उन्हें तुरंत प्राप्त हुई; क्योंकि धनुर्धारी राजा दिलीप के लिए स्वर्ग की वस्तुएं भी अप्राप्य नहीं थीं।
पदच्छेदः AI
उपेत्यउपेत्य (उप√इ+ल्यप्) having attained
सातद् (१.१) she
दोहददुःखशीलतांदोहददुःखशीलता (२.१) the state of uneasiness from pregnancy cravings
यदेवयद् (२.१)एव whatever
वव्रेवव्रे (√वृ कर्तरि लिट् (आत्मने.) प्र.पु. एक.) chose
तदपश्यदाहृतम्तद् (२.१)अपश्यत् (√दृश् कर्तरि लङ् (परस्मै.) प्र.पु. एक.)आहृत (आ√हृ+क्त, २.१) that she saw brought
not
हिहि for
इष्टम्इष्ट (√इष्+क्त, १.१) a desired thing
अस्यइदम् (६.१) of this
त्रिदिवेत्रिदिव (७.१) in heaven
अपिअपि even
भूपतेःभूपति (६.१) of the king
अभूत्अभूत् (√भू कर्तरि लङ् (परस्मै.) प्र.पु. एक.) was
अनासाद्यम्अनासाद्य (१.१) unobtainable
अधिज्यधन्वनःअधिज्यधन्वन् (६.१) of him whose bow was strung
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
पे त्य सा दो दुः शी तां
दे व्रे श्य दा हृ तम्
ही ष्ट स्य त्रि दि वे ऽपि भू ते
भू ना सा द्य धि ज्य न्व नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.