अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे
नृपतिककुदं दत्त्वा यूने सितातपवारणम् ।
मुनिवनतरुच्छायां देव्या तया सह शिश्रिये
गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् ॥

अन्वयः AI अथ विषय-व्यावृत्त-आत्मा सः (दिलीपः) यूने सूनवे नृपति-ककुदम् सित-आतप-वारणम् यथाविधि दत्त्वा, तया देव्या सह मुनि-वन-तरु-छायाम् शिश्रिये । हि इदम् गलित-वयसाम् इक्ष्वाकूणाम् कुल-व्रतम् (अस्ति) ।
सञ्जीविनीटीका (मल्लिनाथः) अथेति॥ अथ विषयेभ्यो व्यावृत्तात्मा निवृत्तचितः स दिलीपो यथाविधि यथाशास्त्त्रं यूने सूनवे नृपतिककुदं राजचिह्नम्। ककुद्वत्ककुदं श्रेष्ठे वृषाङ्के राजलक्ष्मणि इति विश्वः। सितातपवारणं श्वेतच्छत्रं दत्त्वा तया देव्या सुदक्षिणया सह मुनिवनतरोश्छायां शिश्रिये श्रितवान्। वानप्रस्थाश्रमं स्वीकृतवानित्यर्थः। तथा हि-गलितवयसां वृद्धानामिक्ष्वाकूणामिक्ष्वाकोर्गोत्रापत्यानाम्। तद्राजसंज्ञकत्वादणो लुक्। इदं वनगमनं कुलव्रतम्। देव्या सह इत्यनेन सपत्नीकवानप्रस्थाश्रमपक्ष उक्तः। तथा च याज्ञवल्क्यः(प्राय.३।४५)- सुतविन्यस्तपत्नीकस्तया वाऽनुगतो वनम्। वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत्॥ इति। हरिणीवृत्तमेतत्। तदुक्तम्-रसयुगहयैर्न्सौ म्रौ स्लौ गो यदा हरिणी तदा इति॥
Summary AI Then, King Dilipa, his soul turned away from worldly objects, duly gave the royal insignia, the white parasol, to his young son. Along with his queen Sudakshina, he resorted to the shade of the trees in the sages' forest. For this is indeed the family vow of the Ikshvakus in their old age.
सारांश AI तत्पश्चात् विषयों से विरक्त राजा दिलीप ने युवा पुत्र रघु को राजचिह्न श्वेत छत्र सौंपकर, रानी सुदक्षिणा के साथ मुनियों के तपोवन की छाया का आश्रय लिया; क्योंकि वृद्धावस्था में इक्ष्वाकु वंश का यही कुल-व्रत है।
पदच्छेदः AI
अथअथ Then
सःतद् (१.१) he
विषयव्यावृत्तात्माविषयव्यावृत्तआत्मन् (१.१) one whose soul is turned away from worldly objects
यथाविधियथाविधि according to the rule
सूनवेसूनु (४.१) to his son
नृपतिककुदम्नृपतिककुद (२.१) the royal insignia
दत्त्वादत्त्वा (√दा+क्त्वा) having given
यूनेयुवन् (४.१) the young
सितातपवारणम्सितआतपवारण (२.१) the white parasol
मुनिवनतरुच्छायाम्मुनिवनतरुछाया (२.१) the shade of the trees in the sages' forest
देव्यादेवी (३.१) with the queen
तयातद् (३.१) that
सहसह along with
शिश्रियेशिश्रिये (√श्रि कर्तरि लिट् (आत्मने.) प्र.पु. एक.) resorted to
गलितवयसाम्गलितवयस् (६.३) of those whose age has passed
इक्ष्वाकूणाम्इक्ष्वाकु (६.३) of the Ikshvakus
इदम्इदम् (१.१) This
हिहि indeed
कुलव्रतम्कुलव्रत (१.१) is the family vow
छन्दः हरिणी [१७: नसमरसलग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
वि व्या वृ त्ता त्मा था वि धि सू वे
नृ ति कु दं त्त्वा यू ने सि ता वा णम्
मु नि रु च्छा यां दे व्या या शि श्रि ये
लि सा मि क्ष्वा कू णा मि दं हि कु व्र तम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.