नयविद्भिर्नवे राज्ञि सदसञ्चोपदर्शितम् ।
पूर्वं एवाभवत्पक्षस्तस्मिन्नाभवदुत्तरः ॥

अन्वयः AI नयविद्भिः नवे राज्ञि सत् असत् च उपदर्शितम् । तस्मिन् पूर्वः पक्षः एव अभवत्, उत्तरः न अभवत् ।
सञ्जीविनीटीका (मल्लिनाथः) नयविद्भिरिति॥ नयविद्भिर्नीतिशास्त्त्रज्ञैर्नवे तस्मिन्राज्ञि विषये। तमधिकृत्येत्यर्थः। सद्धर्मयुद्धादिकम्, असत् कूटयुद्धादिकं चोपदर्शितम्। तस्मिन्राज्ञि पूर्वः पक्ष एवाभवत्। संकान्त इत्यर्थः। उत्तरः पक्षो नाभवत्। न संक्रान्त इत्यर्थः। तत्र सदसतोर्मध्ये सदेवाभिमतं नासत्। तदुद्भावनं तु ज्ञानार्थमेवेत्यर्थः। पक्षः साधनयोग्यार्थः। पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु इति केशवः॥
Summary AI When policy experts presented both good and bad courses of action to the new king, only the former found favor with him; the latter never did.
सारांश AI नीतिज्ञों द्वारा प्रस्तुत सही और गलत पक्षों में से रघु ने केवल सही पक्ष को अपनाया और अनुचित का त्याग कर दिया।
पदच्छेदः AI
नयविद्भिःनयविद् (३.३) by experts in policy
नवेनव (७.१) new
राज्ञिराजन् (७.१) in the king
सत्सत् (१.१) the good
असत्असत् (१.१) the bad
and
उपदर्शितम्उपदर्शित (उप√दृश्+णिच्+क्त, १.१) was presented
पूर्वम्पूर्व (१.१) the former
एवएव only
अभवत्अभवत् (√भू कर्तरि लङ् (परस्मै.) प्र.पु. एक.) became
पक्षःपक्ष (१.१) the choice
तस्मिन्तत् (७.१) in him
not
अभवत्अभवत् (√भू कर्तरि लङ् (परस्मै.) प्र.पु. एक.) became
उत्तरःउत्तर (१.१) the latter
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वि द्भि र्न वे रा ज्ञि
ञ्चो र्शि तम्
पू र्वं वा त्प क्ष
स्त स्मि न्ना दु त्त रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.