पञ्जानामपि भूतानामुत्कर्षं पुपुषुर्गुणाः ।
नवे तस्मिन्महीपाले सर्वं नवमिवाभवत् ॥

अन्वयः AI नवे तस्मिन् महीपाले (सति) गुणाः पञ्चानाम् अपि भूतानाम् उत्कर्षम् पुपुषुः । सर्वम् नवम् इव अभवत् ।
सञ्जीविनीटीका (मल्लिनाथः) पञ्चानामिति॥ पृथिव्यादीनां पञ्चानां भूतानामपि गुणा गन्धादय उत्कर्षमतिशयं पुपुषुः। अत्रोत्प्रेक्षते-तस्मिन् रघौ नाम नवे महीपाले सति सर्वं क्स्तुजातं नवमिवाभवत्। तदेव भूतजातमिदानीमपूर्वगुणयोगादपूर्वमिवाभवदिति भावः ॥
Summary AI Under that new king, the inherent qualities of the five elements (earth, water, fire, air, ether) achieved excellence. Everything seemed renewed, as if it were new.
सारांश AI राजा रघु के शासन में पाँचों महाभूतों के गुणों में वृद्धि हुई, जिससे संसार में सब कुछ नया और सुंदर प्रतीत होने लगा।
पदच्छेदः AI
पञ्चानाम्पञ्चन् (६.३) of the five
अपिअपि even
भूतानाम्भूत (६.३) of the elements
उत्कर्षम्उत्कर्ष (२.१) excellence
पुपुषुःपुपुषुः (√पुष् कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) nourished
गुणाःगुण (१.३) the qualities
नवेनव (७.१) new
तस्मिन्तत् (७.१) that
महीपालेमहीपाल (७.१) in the king
सर्वम्सर्व (१.१) everything
नवम्नव (१.१) new
इवइव as if
अभवत्अभवत् (√भू कर्तरि लङ् (परस्मै.) प्र.पु. एक.) became
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ञ्जा ना पि भू ता ना
मु त्क र्षं पु पु षु र्गु णाः
वे स्मि न्म ही पा ले
र्वं मि वा वत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.