Loading data... On slow networks this could take a few minutes.
100%

हंसश्रेणीषु तारासु कुमुद्वत्सु च वारिषु ।
विभूतयस्तदीयानां पर्यस्ता यशसामिव ॥

अन्वयः AI तदीयानाम् यशसाम् विभूतयः इव हंसश्रेणीषु तारासु कुमुद्वत्सु वारिषु च पर्यस्ताः (आसन्) ।
सञ्जीविनीटीका (मल्लिनाथः) हंसेति॥ हंसानां श्रेणीषु पङ्क्तिषु। तारासु नक्षत्रेषु। कुमुदानि येषु सन्तीति कुमुद्वन्ति। कुमुद्वान्कुमुदप्राये इत्यमरः (अमरकोशः २.१.१० ) कुमुदनडवेतसेभ्यो ड्यतुप् (अष्टाध्यायी ४.२.८७ ) । तेषु। कुमुदप्रायेष्वित्यर्थः। वारिषु च तदीयानां रघुसंबन्धिनां यशसां विभूतयः संपदः पर्यस्ता इव प्रसारिताः किम् ? इत्युत्प्रेक्षा। अन्यथा कथमेषां धवलिमेति भावः॥
Summary AI His glories seemed to be scattered everywhere: in the lines of swans, in the stars, and in the waters adorned with water-lilies, as if they were manifestations of his widespread fame.
सारांश AI हंसों, नक्षत्रों और कुमुदयुक्त जल में राजा रघु का श्वेत यश ही चारों ओर वैभव के रूप में फैला हुआ दिखाई देता था।
पदच्छेदः AI
हंसश्रेणीषुहंसश्रेणी (७.३) in the lines of swans
तारासुतारा (७.३) in the stars
कुमुद्वत्सुकुमुद्वत् (७.३) in the waters having water-lilies
and
वारिषुवारि (७.३) in the waters
विभूतयःविभूति (१.३) manifestations
तदीयानाम्तदीय (६.३) of his
पर्यस्ताःपर्यस्त (परि√अस्+क्त, १.३) were scattered
यशसाम्यशस् (६.३) of fame
इवइव as if
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
हं श्रे णी षु ता रा सु
कु मु द्व त्सु वा रि षु
वि भू स्त दी या नां
र्य स्ता सा मि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.