प्रसवैः सप्तपर्णानं मदगन्धिभिराहताः ।
असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः ॥

अन्वयः AI मदगन्धिभिः सप्तपर्णानम् प्रसवैः आहताः तत्-नागाः असूयया इव सप्तधा एव प्रसुस्रुवुः ।
सञ्जीविनीटीका (मल्लिनाथः) प्रसवैरिति॥ मदस्यैव गन्धो येषां तैर्मदगन्धिभिः। उपमानाञअच (अष्टाध्यायी ५.४.१३७ ) इतीकारः समासान्तः। सप्तपर्णानां वृक्षविशेषाणाम्। सप्तपर्णो विशालत्वक्शारदो विषमच्छदः इत्यमरः (अमरकोशः २.४.२३ ) । प्रसवैः पुष्पैराहतास्तस्य रघोर्नागागजाः। गजेऽपि नागमातङ्गौ इत्यमरः (अमरकोशः २.४.२३ ) । असूययेवाहतिनिमित्तया स्पर्धयेव सप्तधैव प्रसुस्रुवुर्मदं ववृषुः। प्रतिगजगन्धाभिमानादिति भावः। करात्कटाभ्यां मेढाञ्च नेत्राभ्यां च मदस्रुतिः इति पालकाप्ये। करान्नासारन्ध्राभ्यामित्यर्थः॥
Summary AI Struck by the blossoms of the Saptaparna trees, which had a scent like rut, Raghu's elephants, as if out of jealousy, let their own ichor flow in seven streams.
सारांश AI सप्तपर्ण के पुष्पों की मद जैसी गंध से प्रेरित होकर राजा रघु के हाथी ईर्ष्यावश सात स्थानों से मद बहाने लगे।
पदच्छेदः AI
प्रसवैःप्रसव (३.३) by the blossoms
सप्तपर्णानम्सप्तपर्ण (६.३) of the Saptaparna trees
मदगन्धिभिःमदगन्धि (३.३) with the scent of rut
आहताःआहत (आ√हन्+क्त, १.३) struck
असूययाअसूया (३.१) with jealousy
इवइव as if
तन्नागाःतद्नाग (१.३) his elephants
सप्तधासप्तधा in seven streams
एवएव indeed
प्रसुस्रुवुःप्रसुस्रुवुः (प्र√स्रु कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) flowed forth
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्र वैः प्त र्णा नं
न्धि भि रा ताः
सू ये न्ना गाः
प्त धै प्र सु स्रु वुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.