सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान् ।
यात्रायै चोदयामास तं शक्तेः प्रथमं शरत् ॥

अन्वयः AI शरत् सरितः गाधाः पथः च अश्यान-कर्दमान् कुर्वती, शक्तेः प्रथमम् तम् यात्रायै चोदयामास ।
सञ्जीविनीटीका (मल्लिनाथः) सरित इति॥ सरितो गाधाः सुप्रतराः कुर्वती। पथो मार्गांश्चाश्यानकर्दमाञ्शुष्कपङ्कान् कुर्वंती। संयोगादेरातो धातोर्यण्वतः (अष्टाध्यायी ८.४.४३ ) इति श्यतेर्निष्ठातस्य नत्वम्। शरच्छरदृतुस्तं रघुं शक्तेरुत्साहृशक्तेः प्रथमं प्राग्यात्रायै दण्डयात्रायै चोदयामास प्रेरयामास। प्रभुमन्त्त्रशक्तिसंपन्नस्य शरत् स्वयमुत्साहमुत्पादयामासेत्यर्थः॥
Summary AI The Autumn season, making the rivers fordable and the roads free of wet mud, urged Raghu, the foremost of the powerful, to set out on his military expedition.
सारांश AI नदियों को उथला और मार्गों के कीचड़ को सुखाकर शरद ऋतु ने शक्तिशाली रघु को विजय यात्रा के लिए प्रेरित किया।
पदच्छेदः AI
सरितःसरित् (२.३) rivers
कुर्वतीकुर्वत् (√कृ+शतृ, १.१) making
गाधाःगाध (२.३) fordable
पथःपथिन् (२.३) roads
and
अश्यानकर्दमान्अश्यानकर्दम (२.३) with dried mud
यात्रायैयात्रा (४.१) for the expedition
चोदयामासचोदयामास (√चुद् +णिच् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) urged
तम्तद् (२.१) him
शक्तेःशक्ति (६.१) of power
प्रथमम्प्रथम (२.१) the first
शरत्शरद् (१.१) Autumn
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
रि तः कु र्व ती गा धाः
श्चा श्या र्द मान्
या त्रा यै चो या मा
तं क्तेः प्र मं रत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.