पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः ।
नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः ॥

अन्वयः AI पुरुहूतध्वजस्य उन्नयनपङ्क्तयः इव, तस्य नव अभ्युत्थानम् दर्शिन्यः सप्रजाः प्रजाः ननन्दुः ।
सञ्जीविनीटीका (मल्लिनाथः) पुरुहूतेति॥ पुरुहूतध्वज इन्द्रध्वजः। स किल राजभिर्वृष्ट्यर्थं पूज्यत इत्युक्तं भविष्योत्तरे-एवं यः कुरुते यात्रामिन्द्रकेतोर्युधिष्ठिर!। पर्यन्यः कामवर्षी स्यात्तस्य राज्ये न संशयः॥ इति। चतुरस्रं ध्वजाकारं राजद्वारे प्रतिष्टितम्। आहुः शक्रध्वजं नाम पौरलोकसुखावहम्॥ इति च। पुरुहूतध्वजस्येव तस्य रघोर्नवमभ्युत्थानमभ्युन्नतिमभ्युदयं च पश्यन्तीति नवाभ्युत्थानदर्शिन्यः। उदूर्द्ध्वं प्रस्थिता उल्लसिताश्च नयनपङ्क्तयो यासां ताः सप्रजाः ससंतानाः प्रजाः जनाः। प्रजा स्यात्संततौ जने इत्युत्रयत्राप्यमरः। ननन्दुः ॥
Summary AI Just as the rows of eyes rejoice at the raising of Indra's banner, so did the subjects, along with their children, rejoice upon seeing the new prosperity of their king, Raghu.
सारांश AI इंद्रध्वज के उत्थान के समान रघु के नए अभ्युदय को देखने वाली प्रजा अपनी संतानों के साथ अत्यंत आनंदित हुई।
पदच्छेदः AI
पुरुहूतध्वजस्यपुरुहूतध्वज (६.१) of Indra's banner
इवइव like
तस्यतत् (६.१) his
उन्नयनपङ्क्तयःउन्नयनपङ्क्ति (१.३) rows of raised (eyes)
नवनव (२.१) new
अभ्युत्थानम्अभ्युत्थान (अभि+उद्√स्था+ल्युट्, २.१) rising prosperity
दर्शिन्यःदर्शिन् (१.३) seeing
ननन्दुःननन्दुः (√नन्द् कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) rejoiced
सप्रजाःसप्रजा (१.३) along with their children
प्रजाःप्रजा (१.३) the subjects
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
पु रु हू ध्व स्ये
स्यो न्न ङ्क्त यः
वा भ्यु त्था र्शि न्यो
न्दुः प्र जाः प्र जाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.