Loading data... On slow networks this could take a few minutes.
100%

प्रतापोऽग्रे ततः शब्दः परागस्तदनन्तरम् ।
ययौ पश्चाद्रथादीति चतुःस्कन्धेव सा चमूः ॥

अन्वयः AI (तस्याः चम्वः) प्रतापः अग्रे, ततः शब्दः, तत्-अनन्तरम् परागः, पश्चात् रथ-आदि इति (क्रमेण) ययौ । सा चमूः चतुः-स्कन्धा इव (आसीत्) ।
सञ्जीविनीटीका (मल्लिनाथः) प्रताप इति॥ अग्रे प्रतापस्तेजोविशेषः। स प्रभावः प्रतापश्च यत्तेजः कोशदण्डजम् इत्यमरः। ततः शब्दः सेनाकलकलः। तदनन्तरं परागो धूलिः। परागः पुष्परजसि धूलिस्नानीययोरपिइति शब्दाध्याहारेण योज्यम्। इतीत्थं चतुःस्कन्धेव चतुर्व्यूहेव। स्कन्धः प्रकाण्डे कायांशे विज्ञानादिषु पञ्चसु। नृपेसमूहे व्यूहे च इति हैमः। सा चमूर्ययौ ॥
Summary AI First went his prowess, then the sound, after that the dust, and behind them the chariots and the rest. Thus, that army advanced as if in four divisions.
सारांश AI रघु की सेना का पहले प्रताप, फिर शब्द, फिर धूल और अंत में रथ आदि चले; उनकी वह चतुरंगिणी सेना मानो चार स्कंधों वाली प्रतीत हो रही थी।
पदच्छेदः AI
प्रतापःप्रताप (१.१) Prowess
अग्रेअग्रे in front
ततःततः then
शब्दःशब्द (१.१) the sound
परागःपराग (१.१) the dust
तदनन्तरम्तदनन्तरम् after that
ययौययौ (√या कर्तरि लिट् (परस्मै.) प्र.पु. एक.) went
पश्चात्पश्चात् behind
रथादिरथआदि (१.१) the chariots and the rest
इतिइति thus
चतुःस्कन्धाचतुर्स्कन्ध (१.१) with four divisions
इवइव as if
सातद् (१.१) that
चमूःचमू (१.१) army
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्र ता पो ऽग्रे तः ब्दः
रा स्त न्त रम्
यौ श्चा द्र था दी ति
तुः स्क न्धे सा मूः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.