वङ्गानुत्खाय तरसा नेता नौसाधनोद्यतान् ।
निचखान जयस्तम्भान्गङ्गास्रोतोन्तरेषु सः ॥

अन्वयः AI नेता सः तरसा नौ-साधन-उद्यतान् वङ्गान् उत्खाय, गङ्गा-स्रोतः-अन्तरेषु जय-स्तम्भान् निचखान ।
सञ्जीविनीटीका (मल्लिनाथः) वङ्गानिति॥ नेता नायकः स रघुर्नौभिः साधनैरुद्यतान्संनद्धान् वङ्गान्राज्ञस्तरसा बलेन। तरसी बलरंहसी इति यादवः। उत्खायोन्मूल्य गङ्गायाः स्रोतसां प्रवाहाणामन्तरेषु द्वीपेषु जयस्तम्भान्निचखान। स्थापितवानित्यर्थः॥
Summary AI That leader (Raghu), having forcefully uprooted the Vangas who were proficient in naval warfare, planted pillars of victory on the islands amidst the streams of the Ganges.
सारांश AI नौकाओं से युद्ध करने वाले वंग देश के राजाओं को हराकर रघु ने गंगा की धाराओं के बीच विजय स्तंभ स्थापित किए।
पदच्छेदः AI
वङ्गान्वङ्ग (२.३) the Vangas
उत्खायउत्खाय (उत्√खन्+ल्यप्) having uprooted
तरसातरस् (३.१) by force
नेतानेतृ (१.१) The leader
नौसाधनोद्यतान्नौसाधनउद्यत (२.३) who were proficient in naval warfare
निचखाननिचखान (नि√खन् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) planted
जयस्तम्भान्जयस्तम्भ (२.३) pillars of victory
गङ्गास्रोतोन्तरेषुगङ्गास्रोतस्अन्तर (७.३) on the islands in the streams of the Ganges
सःतद् (१.१) He
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ङ्गा नु त्खा सा
ने ता नौ सा नो द्य तान्
नि खा स्त म्भा
न्ग ङ्गा स्रो तो न्त रे षु सः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.