Loading data... On slow networks this could take a few minutes.
100%

स सैन्यपरिभोगेण गजदानसुगन्धिना ।
कावेरीं सरितां पत्युः शङ्कनीयामिवाकरोत् ॥

अन्वयः AI सः गजदान-सुगन्धिना सैन्य-परिभोगेण कावेरीम् सरिताम् पत्युः शङ्कनीयाम् इव अकरोत्।
सञ्जीविनीटीका (मल्लिनाथः) स इति॥ स रघुः गजानां दानेन मदेन सुगन्धिना सुरभिगन्धिना। गन्धस्येत्- (अष्टाध्यायी ५.४.१३५ ) इत्यादिनेकारादेशः समासान्तः। यद्यपि गन्धस्येत्वेः तदेकान्तग्रहणं कर्तव्यमिति नैसर्गिग्धविवक्षायामेवेकारादेशः, तथापि निरङ्कुशाः कवयः। तथा च माघकाव्ये(६।५०)-ववुरयुक्छदगुच्छसुगन्धयः सततगास्तगानगिरोऽलिभिः, नैषधे च (३।९३)-अपां हि तृप्ताय न वारिधाराः स्वादुसुगन्धिः स्वदते तुषाराइति। न कर्मधारयान्मत्वर्थीय इति निषेधादिनिप्रत्ययपक्षोऽपि जघन्य एव। सेनायां समवेताः सैन्याः। सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते इत्यमरः (अमरकोशः २.८.६१ ) सेनाया वा (अष्टाध्यायी ४.४.४५ ) इति ण्यप्रत्ययः। तेषां परिभोगेन कावेरीं नाम सरितं सरितां पत्युः समुद्रस्य शङ्कनीयां न विश्वसनीयामिवाकरोत्। संभोगलिङ्गदर्शनाद्भर्तुरविश्वासो भवतीति भावः ॥
Summary AI By the passage of his army, fragrant with the ichor of elephants, Raghu made the river Kaveri seem like a rival wife to her husband, the ocean, thus making her an object of his suspicion.
सारांश AI हाथियों के मद की सुगंध से युक्त रघु की सेना के उपभोग के कारण कावेरी नदी समुद्र के लिए परपुरुषगामिनी स्त्री के समान शंकास्पद हो गई।
पदच्छेदः AI
सःतद् (१.१) He,
सैन्य-परिभोगेणसैन्यपरिभोग (३.१) by the use of his army,
गजदान-सुगन्धिनागजदानसुगन्धिन् (३.१) fragrant with the ichor of elephants,
कावेरीम्कावेरी (२.१) the Kaveri river
सरिताम्सरित् (६.३) of rivers
पत्युःपति (६.१) of the lord (the ocean),
शङ्कनीयाम्शङ्कनीय (√शङ्कनीय+अनीयर्, २.१) an object of suspicion (a rival wife)
इवइव as if,
अकरोत्अकरोत् (√कृ कर्तरि लङ् (परस्मै.) प्र.पु. एक.) made.
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सै न्य रि भो गे
दा सु न्धि ना
का वे रीं रि तां त्युः
ङ्क नी या मि वा रोत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.