Loading data... On slow networks this could take a few minutes.
100%

स निर्विश्य यथाकामं तटेष्वालीनचन्दनौ ।
स्तनाविव दिशस्तस्याः शैलौ मलयदर्दुरौ ॥

अन्वयः AI सः तस्याः दिशः स्तनौ इव (स्थितौ) आलीन-चन्दनौ मलय-दर्दुरौ शैलौ तटेषु यथाकामम् निर्विश्य (ययौ)।
सञ्जीविनीटीका (मल्लिनाथः) स इति॥ असह्येति च॥ युग्ममेतत्। असह्यविक्रमः स रघुस्तटेषु सानुष्वालीनचन्दनौ व्याप्तचन्दनद्रुमौ। गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्त्रियाम्इत्यमरः। स्तनपक्षे, -प्रान्तेषु व्याप्तचन्दनानुलेपौ। तस्या दक्षिणस्या दिशः स्तनाविव स्थितौ मलयदर्दुरौ नाम शैलौ यथाकामं यथेच्छं निर्विश्योपभुज्य।निर्वेशो भृतिभोगयोःइत्यमरः (अमरकोशः ३.३.२२६ ) । उदकान्यस्य सन्तीत्युदन्वानुदधिः।उदन्वानुदधौ चइति (अष्टाध्यायी ८.२.१३ ) निपातः। उदन्वता दूरान्मुक्तं दूरतस्त्यक्तम्।स्तोकान्तिकदूरार्थिकृच्छ्राणि क्तेन(अष्टाध्यायी २.१.३९ ) इति समासः।पञ्चम्याः स्तोकादिभ्यः` (अष्टाध्यायी ६.३.३ ) इत्यलुक्। स्रस्तांशुकं मेदिन्या नितम्बमिव स्थितं सह्यं सह्याद्रिमलङ्घयत् प्राप्तोऽतिक्रान्तो वा ॥
Summary AI He (Raghu) enjoyed at will the Malaya and Dardura mountains, which were covered with clinging sandalwood trees and stood like the two breasts of the southern direction, resting on their slopes.
सारांश AI राजा रघु ने दक्षिण दिशा के स्तनों के समान प्रतीत होने वाले और चंदन युक्त मलय तथा दर्दुर पर्वतों पर अपनी इच्छानुसार विजय विहार किया।
पदच्छेदः AI
सःतद् (१.१) He,
निर्विश्यनिर्विश्य (निर्√विश्+ल्यप्) having enjoyed
यथाकामम्यथाकामम् at will
तटेषुतट (७.३) on the slopes
आलीन-चन्दनौआलीन (आ√ली+क्त)चन्दन (२.२) on which sandalwood trees clung,
स्तनौस्तन (२.२) the two breasts
इवइव like
दिशःदिश् (६.१) of the direction
तस्याःतद् (६.१) of that (South),
शैलौशैल (२.२) the two mountains
मलय-दर्दुरौमलयदर्दुर (२.२) Malaya and Dardura.
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नि र्वि श्य था का मं
टे ष्वा ली न्द नौ
स्त ना वि दि स्त स्याः
शै लौ र्दु रौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.