Loading data... On slow networks this could take a few minutes.
100%

असह्यविक्रमः सह्यं दूरान्मुक्तमुदन्वता ।
नितम्बमिव मेदिन्याः स्रस्तांशुकमलङ्घयत् ॥

अन्वयः AI असह्य-विक्रमः (सः) उदन्वता दूरात् मुक्तम् मेदिन्याः स्रस्त-अंशुकम् नितम्बम् इव सह्यम् अलङ्घयत्।
सञ्जीविनीटीका (मल्लिनाथः) स इति॥ असह्येति च॥ युग्ममेतत्। असह्यविक्रमः स रघुस्तटेषु सानुष्वालीनचन्दनौ व्याप्तचन्दनद्रुमौ। गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्त्रियाम्इत्यमरः। स्तनपक्षे, -प्रान्तेषु व्याप्तचन्दनानुलेपौ। तस्या दक्षिणस्या दिशः स्तनाविव स्थितौ मलयदर्दुरौ नाम शैलौ यथाकामं यथेच्छं निर्विश्योपभुज्य।निर्वेशो भृतिभोगयोःइत्यमरः (अमरकोशः ३.३.२२६ ) । उदकान्यस्य सन्तीत्युदन्वानुदधिः।उदन्वानुदधौ चइति (अष्टाध्यायी ८.२.१३ ) निपातः। उदन्वता दूरान्मुक्तं दूरतस्त्यक्तम्।स्तोकान्तिकदूरार्थिकृच्छ्राणि क्तेन(अष्टाध्यायी २.१.३९ ) इति समासः।पञ्चम्याः स्तोकादिभ्यः` (अष्टाध्यायी ६.३.३ ) इत्यलुक्। स्रस्तांशुकं मेदिन्या नितम्बमिव स्थितं सह्यं सह्याद्रिमलङ्घयत् प्राप्तोऽतिक्रान्तो वा ॥
Summary AI Raghu, of unbearable valor, crossed the Sahya mountain, which, being set back from the ocean, resembled the hip of the Earth from which its garment (the sea) had slipped.
सारांश AI अजेय पराक्रमी रघु ने सह्य पर्वत को पार किया, जो समुद्र द्वारा छोड़े जाने के कारण पृथ्वी के खिसके हुए वस्त्र वाले नितम्ब जैसा लग रहा था।
पदच्छेदः AI
असह्य-विक्रमःअसह्यविक्रम (१.१) He of unbearable valor,
सह्यम्सह्य (२.१) the Sahya mountain,
दूरात्दूरात् from a distance
मुक्तम्मुक्त (√मुच्+क्त, २.१) abandoned
उदन्वताउदन्वत् (३.१) by the ocean,
नितम्बम्नितम्ब (२.१) the hip/slope
इवइव like
मेदिन्याःमेदिनी (६.१) of the Earth,
स्रस्त-अंशुकम्स्रस्त (√स्रस्त+क्त)अंशुक (२.१) from which the garment has slipped,
अलङ्घयत्अलङ्घयत् (√लङ्घ् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) crossed.
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ह्य वि क्र मः ह्यं
दू रा न्मु क्त मु न्व ता
नि म्ब मि मे दि न्याः
स्र स्तां शु ङ्घ यत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.