तस्यानीकैर्विसर्पद्भिरपरान्तजयोद्यतैः ।
रामास्त्त्रोत्सारितोऽप्यासीत्सह्यलग्न इवार्णवः ॥

अन्वयः AI अपरान्त-जय-उद्यतैः विसर्पद्भिः तस्य अनीकैः राम-अस्त्र-उत्सारितः अपि अर्णवः सह्य-लग्नः इव आसीत्।
सञ्जीविनीटीका (मल्लिनाथः) तस्येति॥ अपरान्तानां पाश्चात्त्यानां जय उद्यतैरुद्युक्तैः। अपरान्तास्तु पाश्चात्त्यास्ते च सूर्यरिकादयः इति यादवः। विसर्पद्भिर्गच्छद्भिस्तस्य रघोरनीकैः सैन्यैः। अनीकं तु रणे सैन्ये इति विश्वः। अर्णवो रामस्य जामदग्न्यस्यास्त्त्रैरुत्सारितः परिसारितोऽपि सह्यलग्न इवासीत्। सैन्यं द्वितीयोऽर्णव इवादृश्यतेति भावः ॥
Summary AI With his armies spreading out, intent on conquering the Aparanta region, the ocean—though once driven back by Parashurama's arrow—seemed to cling to the Sahya mountain again, as if pushed back by Raghu's forces.
सारांश AI पश्चिमी तट को जीतने के लिए निकलती हुई रघु की सेनाओं से ऐसा लगा मानो परशुराम द्वारा पीछे हटाया गया समुद्र पुनः सह्य पर्वत से आकर मिल गया हो।
पदच्छेदः AI
तस्यतद् (६.१) his
अनीकैःअनीक (३.३) by the armies,
विसर्पद्भिःविसर्पत् (वि√सृप्+शतृ, ३.३) spreading,
अपरान्त-जय-उद्यतैःअपरान्तजयउद्यत (उद्√यम्+क्त, ३.३) intent on conquering the Aparanta region,
राम-अस्त्र-उत्सारितःरामअस्त्रउत्सारित (उद्√सृ+णिच्+क्त, १.१) driven back by Rama's arrow
अपिअपि even,
आसीत्आसीत् (√अस् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) was
सह्य-लग्नःसह्यलग्न (√लग्न+क्त, १.१) clinging to the Sahya mountain
इवइव as if
अर्णवःअर्णव (१.१) the ocean.
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्या नी कै र्वि र्प द्भि
रा न्त यो द्य तैः
रा मा स्त्त्रो त्सा रि तो ऽप्या सी
त्स ह्य ग्न वा र्ण वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.