खर्जूरीस्कन्धनद्धानां मदोद्गारसुगन्धिषु ।
कटेषु करिणां पेतुः पुंनागेभ्यः शिलीमुखाः ॥

अन्वयः AI पुंनागेभ्यः शिलीमुखाः खर्जूरी-स्कन्ध-नद्धानाम् मद-उद्गार-सुगन्धिषु करिणाम् कटेषु पेतुः।
सञ्जीविनीटीका (मल्लिनाथः) खर्जूरीति॥ खर्जूरीणां तृणद्रुमविशेषाणाम्। खर्जूरः केतकी ताली खर्जूरी च तृणद्रुमा इत्यमरः (अमरकोशः २.४.१७० ) । स्कन्धेषु प्रकाण्डेषु। अस्त्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः इत्यमरः (अमरकोशः २.४.१७० ) । नद्धानां बद्धानां करिणां मदोद्गारेण मदस्रावेण सुगन्धिषु। गन्धस्येत्- (अष्टाध्यायी ५.४.१३५ ) इत्यादिनेकारः। कटेषु गण्डेषु पुंनागेभ्यो नागकेशरेभ्यः पुंनागपुष्पाणि विहाय। ल्यब्लोपे पञ्चमी। शिलीमुखा अलयः पेतुः। अलिबाणौ शिनीमुखौ इत्यमरः (अमरकोशः २.४.१७० ) । ततो।ञपि सौगन्ध्यातिशयादिति भावः ॥
Summary AI Bees from the Punnaga trees landed on the temples of the elephants, which were tied to the trunks of date-palm trees and were fragrant with exuding ichor.
सारांश AI खजूर के पेड़ों से बंधे हाथियों के मदमस्त गंडस्थलों पर पुंनाग वृक्षों के पुष्पों से गिरने वाले भौंरे और शत्रुओं के बाण एक साथ गिरने लगे।
पदच्छेदः AI
खर्जूरी-स्कन्ध-नद्धानाम्खर्जूरीस्कन्धनद्ध (√नद्ध+क्त, ६.३) of those tied to the trunks of date-palm trees,
मद-उद्गार-सुगन्धिषुमदउद्गारसुगन्धिन् (७.३) on the fragrant with the scent of exuding ichor
कटेषुकट (७.३) temples
करिणाम्करिन् (६.३) of the elephants,
पेतुःपेतुः (√पत् कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) fell
पुंनागेभ्यःपुंनाग (५.३) from the Punnaga trees
शिलीमुखाःशिलीमुख (१.३) bees.
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्जू री स्क न्ध द्धा नां
दो द्गा सु न्धि षु
टे षु रि णां पे तुः
पुं ना गे भ्यः शि ली मु खाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.