Loading data... On slow networks this could take a few minutes.
100%

सङ्ग्रामस्तुमुलस्तस्य पाश्चात्त्यैरश्वसाधनैः ।
शार्ङ्गकूजितविज्ञेयप्रतियोधे रजस्यभूत् ॥

अन्वयः AI तस्य तुमुलः सङ्ग्रामः पाश्चात्त्यैः अश्वसाधनैः (सह) शार्ङ्गकूजितविज्ञेयप्रतियोधे रजसि अभूत्।
सञ्जीविनीटीका (मल्लिनाथः) सङ्ग्राम इति॥ तस्य रघोरश्वसाधनैर्वाजिसैन्यैः। साधनं सिद्धिसैन्ययोः इति हैमः। पश्चाद्भवैः पाश्चात्त्यैर्यवनैः सह दक्षिणापश्चात्पुरसस्त्यक् (अष्टाध्यायी ४.२.९८ ) । सहार्थे तृतीया। शृङ्गाणां विकाराः शार्ङ्गाणि धनूंषि तेषां कूजितैः शब्दैः। शार्ङ्गं पुनर्धनुषि शार्ङ्गिणः। जये च शृङ्गविहिते चापेऽप्याह विशेषतः॥ इति केशवः। अथवा, -शार्ङ्गैः शृङ्गसंबन्धिभिः कूजितैर्विज्ञेया अनुमेयाः प्रतियोधाः प्रतिभटाः यस्मिंस्तस्मिन् रजसि तुमुलः सङ्गामः संकुलं युद्धमभूत्। तुमुलं रणसंकुले इत्यमरः ॥
Summary AI His tumultuous battle with the westerners, whose forces consisted of cavalry, took place in such thick dust that the enemy warriors could only be identified by the twang of their bows.
सारांश AI पश्चिमी अश्वारोही सेना के साथ रघु का भयंकर युद्ध हुआ, जहाँ उड़ने वाली धूल के कारण शत्रु केवल अपने धनुषों की टंकार से ही पहचाने जा रहे थे।
पदच्छेदः AI
सङ्ग्रामःसङ्ग्राम (१.१) battle
तुमुलःतुमुल (१.१) tumultuous
तस्यतद् (६.१) his
पाश्चात्त्यैःपाश्चात्त्य (३.३) with the westerners
अश्वसाधनैःअश्वसाधन (३.३) whose forces were cavalry
शार्ङ्गकूजितविज्ञेयप्रतियोधेशार्ङ्गकूजितविज्ञेयप्रतियोध (७.१) in which the opponent was to be identified by the twang of the bow
रजसिरजस् (७.१) in the dust
अभूत्अभूत् (√भू कर्तरि लङ् (परस्मै.) प्र.पु. एक.) took place
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ङ्ग्रा स्तु मु स्त स्य
पा श्चा त्त्यै श्व सा नैः
शा र्ङ्ग कू जि वि ज्ञे
प्र ति यो धे स्य भूत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.