भल्लापवर्जितैस्तेषां शिरोभिः श्मश्रुलैर्महीम् ।
तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव ॥

अन्वयः AI सः तेषां भल्लापवर्जितैः श्मश्रुलैः शिरोभिः महीम् तस्तार, सरघाव्याप्तैः क्षौद्रपटलैः इव।
सञ्जीविनीटीका (मल्लिनाथः) भल्लेति॥ स रघुर्भल्लापवलर्जितैर्बाणविशेषकृत्तैः। स्नुहीदलफलो भल्लः इति यादवः। श्मश्रुलैः प्रवृद्धमुखरोमवद्भिः। सिध्मादिभ्यश्च (अष्टाध्यायी ५.२.९७ ) इति लच्प्रत्ययः। तेषां पाश्चात्त्यानां शिरोभिः। सरघाभिर्मधुमक्षिकाभिर्व्याप्तैः। सरघा मधुमक्षिका इत्यमरः (अमरकोशः २.५.२९ ) । क्षुद्राः सरघाः। क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका इत्यमरशाश्वतौ। क्षुद्राभिः कृतानि क्षौद्राणि मधूनि। मधु क्षौद्रं माक्षिकादि इत्यमरः (अमरकोशः २.९.१०७ ) क्षुद्राभअरमरवटरपादपादञ् (अष्टाध्यायी ४.३.११९ ) इति संज्ञायामञ्प्रत्ययः। तेषां पटलैः स्तबकैरिव। पटलं तिलके नेत्ररोगे छन्दसि संचये। पटिके परिवारे च इति हैमः। महीं तस्ताराच्छादयामास ॥
Summary AI He (Raghu) covered the earth with their bearded heads, severed by broad-headed arrows, as if with clusters of honeycombs swarming with bees.
सारांश AI रघु ने शत्रुओं के दाढ़ी वाले कटे हुए सिरों से पृथ्वी को इस प्रकार पाट दिया, जैसे मधुमक्खियों से घिरे हुए शहद के छत्ते बिखरे हों।
पदच्छेदः AI
भल्लापवर्जितैःभल्लअपवर्जित (३.३) by those severed by broad-headed arrows
तेषाम्तद् (६.३) their
शिरोभिःशिरस् (३.३) with heads
श्मश्रुलैःश्मश्रुल (३.३) bearded
महीम्मही (२.१) the earth
तस्तारतस्तार (√स्तृ कर्तरि लिट् (परस्मै.) प्र.पु. एक.) covered
सरघाव्याप्तैःसरघाव्याप्त (३.३) swarmed by honey-bees
सःतद् (१.१) he
क्षौद्रपटलैःक्षौद्रपटल (३.३) with clusters of honeycombs
इवइव like
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ल्ला र्जि तै स्ते षां
शि रो भिः श्म श्रु लै र्म हीम्
स्ता घा व्या प्तैः
क्षौ द्र लै रि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.