तेषां सदश्वभूयिष्ठास्तुङ्गा द्रविणराशयः ।
उपदा विविशुः शश्वन्नोत्सेकाः कोसलेश्वरम् ॥

अन्वयः AI तेषां सदश्वभूयिष्ठाः तुङ्गाः द्रविणराशयः उपदा (भूत्वा) शश्वत् न उत्सेकाः (सन्त:) कोसलेश्वरं विविशुः।
सञ्जीविनीटीका (मल्लिनाथः) तेषामिति॥ तेषां काम्बोजानां सद्भिरश्वैर्भूयिष्ठा बहुलास्तुङ्गा द्रविणानां हिरण्यानाम्। हिरण्यं द्रविणं द्युम्नम् इत्यमरः (अमरकोशः २.९.९० ) । राशय एवोपदा उपायनानि। उपायनमुपग्राह्यमुपहारस्तथोपदा इत्यमरः (अमरकोशः २.८.२८ ) । कोसलेश्वरं कोसलदेशाधिपतिं तं रघुं शश्वदसकृद्विविशुः। मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः इत्यमरः (अमरकोशः ३.४.१ ) । तथाप्युत्सेका गर्वास्तु न विविशुः। सत्यपि गर्पकारणे न जगर्वेत्यर्थः ॥
Summary AI Their vast heaps of wealth, abundant with fine horses, entered the treasury of the lord of Kosala as tribute, yet this did not make him arrogant.
सारांश AI काम्बोजों द्वारा भेंट किए गए उत्तम घोड़ों और अपार धन-संपत्ति ने रघु के कोष को भर दिया, किंतु इस महान उपलब्धि से उनके मन में रत्ती भर भी अहंकार नहीं आया।
पदच्छेदः AI
तेषाम्तद् (६.३) their
सदश्वभूयिष्ठाःसदश्वभूयिष्ठ (१.३) abundant with fine horses
तुङ्गाःतुङ्ग (१.३) vast
द्रविणराशयःद्रविणराशि (१.३) heaps of wealth
उपदाउपदा (१.१) as tribute
विविशुःविविशुः (√विश् कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) entered
शश्वत्शश्वत् always
not
उत्सेकाःउत्सेक (१.३) arrogant
कोसलेश्वरम्कोसलईश्वर (२.१) the lord of Kosala
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ते षां श्व भू यि ष्ठा
स्तु ङ्गा द्र वि रा यः
दा वि वि शुः श्व
न्नो त्से काः को ले श्व रम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.