भूर्जेषु मर्मरीभूताः कीचकध्वनिहेतवः ।
गङ्गाशीकरिणो मार्गे मरुतस्तं सिषेविरे ॥

अन्वयः AI मार्गे भूर्जेषु मर्मरीभूताः कीचकध्वनिहेतवः गङ्गाशीकरिणः मरुतः तम् सिषेविरे।
सञ्जीविनीटीका (मल्लिनाथः) भूर्जेष्विति॥ भूर्जेषु भूर्जेपत्रेषु। भूर्जपत्रो भुजो भूर्जो मृदुत्वक्चर्मिका मता इति यादवः। मर्मरः शुकपर्णध्वनिः । मर्मरः शुष्कपर्णानाम् इति यादवः। अयं च शुक्लादिशब्दवद्गुणिन्यपि वर्तते। प्रयोज्यते च-मर्मरैरगुरुधूपगन्धिभिः इति। अतो मर्मरीभूताः। मर्मर शब्दवन्तो भूता इत्यर्थः। कीचकानां वेणुविशेषाणां ध्वनिहेतवः। श्रोत्रसुखाश्चेति भावः। गङ्गाशीकरिणः शीतला इत्यर्थः। मरुतो वाता मार्गे तं सिषेविरे ॥
Summary AI On his path, winds served him; they carried fine sprays of water from the Ganges, created a rustling sound in the birch trees, and whistled through the hollow bamboos.
सारांश AI मार्ग में गंगा की बूंदों से शीतल पवन, जो भोजपत्रों में मर्मर ध्वनि और बाँसों में सुरीली तान पैदा कर रही थी, रघु की सेवा में उपस्थित रही।
पदच्छेदः AI
भूर्जेषुभूर्ज (७.३) in the birch trees
मर्मरीभूताःमर्मरीभूत (१.३) having become rustling
कीचकध्वनिहेतवःकीचकध्वनिहेतु (१.३) the cause of sound in the hollow bamboos
गङ्गाशीकरिणःगङ्गाशीकरिन् (१.३) carrying sprays of water from the Ganges
मार्गेमार्ग (७.१) on the path
मरुतःमरुत् (१.३) the winds
तम्तद् (२.१) him
सिषेविरेसिषेविरे (√सेव् कर्तरि लिट् (आत्मने.) प्र.पु. बहु.) served
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
भू र्जे षु र्म री भू ताः
की ध्व नि हे वः
ङ्गा शी रि णो मा र्गे
रु स्तं सि षे वि रे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.