Loading data... On slow networks this could take a few minutes.
100%

तत्र जन्यं रघोर्घोरं पर्वतीयैर्गणैरभूत् ।
नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलम् ॥

अन्वयः AI तत्र रघोः पर्वतीयैः गणैः (सह) नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलं घोरं जन्यम् अभूत्।
सञ्जीविनीटीका (मल्लिनाथः) तत्रेति॥ तत्र हिमाद्रौ रघोः पर्वते भवैः पर्वतीयैः। पर्वताञ्च (अष्टाध्यायी ४.२.१४३ ) इति छप्रत्ययः। गणैरुत्सवसंकेताख्यैः सप्तभिः सह। गणानुत्सवसंकेतानजयत्सप्तपाण्डवः इति महाभारते। नाराचानां बाणविशेषाणां क्षेपणीयानां भिन्दिपालानामश्मनां च निष्पेषेण संघर्षेणोत्पतिता अनला यस्मिंस्तत्तथोक्तम्। क्षेपणीयो भिन्दिपालः खङ्गो दीर्घो महाफलः इति यादवः। घोरं भीमं जन्यं युद्धमभूत्। युद्धमायोधनं जन्यम् इत्यमरः (अमरकोशः २.८.१०३ )
Summary AI There, Raghu fought a terrible battle with the mountain tribes, a battle in which fire sparked from the clash of his iron arrows against the stones hurled by them.
सारांश AI रघु का पर्वतीय जातियों के साथ भयंकर युद्ध हुआ, जिसमें लोहे के बाणों और पत्थरों के प्रहारों से अग्नि की चिनगारियाँ फूट रही थीं।
पदच्छेदः AI
तत्रतत्र there
जन्यम्जन्य (१.१) a battle
रघोःरघु (६.१) of Raghu
घोरम्घोर (१.१) terrible
पर्वतीयैःपर्वतीय (३.३) with the mountaineer
गणैःगण (३.३) tribes
अभूत्अभूत् (√भू कर्तरि लङ् (परस्मै.) प्र.पु. एक.) occurred
नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलम्नाराचक्षेपणीयअश्मन्निष्पेषउत्पतितअनल (१.१) in which fire was produced from the clash of iron arrows and hurled stones
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्र न्यं घो र्घो रं
र्व ती यै र्ग णै भूत्
ना रा क्षे णी या श्म
नि ष्पे षो त्प ति ता लम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.