Loading data... On slow networks this could take a few minutes.
100%

तमध्वरे विश्वजिति क्षितीशं
निःशेषविश्राणितकोशजातम् ।
उपात्तविद्यो गुरुदक्षिणार्थी
कौत्सः प्रपेदे वरतन्तुशिष्यः ॥

अन्वयः AI वरतन्तुशिष्यः उपात्तविद्यः गुरुदक्षिणार्थी कौत्सः विश्वजिति अध्वरे निःशेषविश्राणितकोशजातम् तम् क्षितीशम् प्रपेदे।
सञ्जीविनीटीका (मल्लिनाथः) तमिति॥ विश्वजिति विश्वजिन्नाम्र्यध्वरे यज्ञे। यज्ञः सवोऽध्वरो यागः इत्यमरः (अमरकोशः २.७.१५ ) । निःशेषं विश्राणितं दत्तम्। श्रण दानेचुरादिः। कोशानामर्थराशीनां जातं समूहो येन तं तथोक्तम्। कोशोऽस्त्त्री कुड्भले खङ्गपिधानेऽर्यौघदिव्ययोः इत्यमरः (अमरकोशः २.७.१५ ) जातं जनिसमूहयोः इति शाश्वतः। एतेन कौत्सस्यानवसरप्राप्तिं सूचयति। त्तं क्षितीशं रघुमुपात्तविद्यो लब्धविद्यो वरतन्तोः शिष्यः कौत्सः। ऋष्यन्धक- (अष्टाध्यायी ४.१.११४ ) इत्यण्। इञोऽपवादः। गुरुदक्षिणार्थी। पुष्करादिभ्यो देशे (अष्टाध्यायी ५.२.१३५ ) इत्यत्रार्थाञ्चासंनिहिते तदन्ताञ्चेतीनेः। अप्रत्याख्येय इति भावः। प्रपेदे प्राप। अस्मिन्सर्गे वृत्तमुपजातिः। तल्लक्षणं तु-स्यादिन्द्रवज्रा यदि तौ जगौ गः। उपेन्द्रवज्रा जतजास्ततो गौ। अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीथावुपजातयस्ताः इति॥
Summary AI Kautsa, the disciple of Varatantu, having completed his studies and now seeking to pay the fee to his teacher, approached King Raghu during the Vishvajit sacrifice, at a time when the king had given away his entire treasury.
सारांश AI विश्वजित् यज्ञ में अपना सारा कोष दान कर देने वाले राजा रघु के पास शिक्षा पूर्ण कर गुरुदक्षिणा की इच्छा रखने वाले महर्षि वरतन्तु के शिष्य कौत्स पहुँचे।
पदच्छेदः AI
तम्तद् (२.१) him
अध्वरेअध्वर (७.१) in the sacrifice
विश्वजितिविश्वजित् (७.१) in the Vishvajit
क्षितीशम्क्षितीश (२.१) the lord of the earth
निःशेषविश्राणितकोशजातम्निःशेषविश्राणित (वि√श्रण्+णिच्+क्त)कोशजात (२.१) one whose entire collection of treasury was given away
उपात्तविद्यःउपात्त (उप+आ√दा+क्त)विद्या (१.१) one who has acquired knowledge
गुरुदक्षिणार्थीगुरुदक्षिणाअर्थिन् (१.१) one desirous of (paying) the teacher's fee
कौत्सःकौत्स (१.१) Kautsa
प्रपेदेप्रपेदे (प्र√पद् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) approached
वरतन्तुशिष्यःवरतन्तुशिष्य (१.१) the disciple of Varatantu
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
ध्व रे वि श्व जि ति क्षि ती शं
निः शे वि श्रा णि को जा तम्
पा त्त वि द्यो गु रु क्षि णा र्थी
कौ त्सः प्र पे दे न्तु शि ष्यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.