Loading data... On slow networks this could take a few minutes.
100%

अपि प्रसन्नेन महर्षिणा त्वं
सम्यग्विनीयानुमतो गृहाय ।
कालो ह्ययं संक्रमितुं द्वितीयं
सर्वोपकारक्षममाश्रमं ते ॥

अन्वयः AI अपि प्रसन्नेन महर्षिणा सम्यक् विनीय त्वम् गृहाय अनुमतः? हि अयम् ते द्वितीयम् सर्वोपकारक्षमम् आश्रमम् संक्रमितुम् कालः।
सञ्जीविनीटीका (मल्लिनाथः) अपीति॥ किंच, त्वं प्रसन्नेन सता महर्षिणा सम्यग्विनीय शिक्षयित्वा। विद्यामुपदिश्येत्यर्थः। गृहाय गृहस्थाश्रमं प्रवेष्मुम्। क्रियार्थोपपद- (अष्टाध्यायी २.३.१४ ) इत्यादिना चतुर्थी। अनुमतोऽप्यनुज्ञातः किम् ? हि यस्मात्ते तव सर्वेषामाश्रमाणां ब्रह्मचर्य-वनप्रस्थ यतीनामुपकारे क्षमं शक्तम्। क्षमं शक्ते हिते त्रिषु इत्यमरः (अमरकोशः ३.३.१५१ ) । द्वितीयमाश्रमं गार्हस्थ्यं संक्रमितुं प्राप्तुमयं कालः। विद्याग्रहणानन्तर्यात्तस्येति भावः। कालसमयवेलासु तुमुन् (अष्टाध्यायी ३.३.१६४ ) इति तुमुन्। सर्वोपकारक्षममित्यत्र मनुः(३।७७)-यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः। वर्तन्ते गृहीणस्तद्वदाश्रित्येतर आश्रमाः ॥ इति ॥
Summary AI "Having been properly instructed, have you been permitted by the pleased great sage to enter the householder's life? For this is the right time for you to enter the second stage of life (Grihastha ashrama), which is capable of rendering service to all."
सारांश AI क्या महर्षि ने प्रसन्न होकर आपको गृहस्थाश्रम की अनुमति दे दी है? क्योंकि अब आपके लिए परोपकार में समर्थ इस द्वितीय आश्रम में प्रवेश का उचित समय है।
पदच्छेदः AI
अपिअपि (question particle)
प्रसन्नेनप्रसन्न (३.१) by the pleased
महर्षिणामहर्षि (३.१) by the great sage
त्वंयुष्मद् (१.१) you
सम्यक्सम्यक् properly
विनीयविनीय (वि√नी+ल्यप्) having been instructed
अनुमतःअनुमत (अनु√मन्+क्त, १.१) permitted
गृहायगृह (४.१) for the householder's life
कालःकाल (१.१) time
हिहि for
अयम्इदम् (१.१) this
संक्रमितुंसंक्रमितुम् (सम्√क्रम्+तुमुन्) to enter
द्वितीयंद्वितीय (२.१) the second
सर्वोपकारक्षमम्सर्वउपकारक्षम (२.१) capable of rendering service to all
आश्रमंआश्रम (२.१) stage of life
तेयुष्मद् (६.१) your
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
पि प्र न्ने र्षि णा त्वं
म्य ग्वि नी या नु तो गृ हा
का लो ह्य यं सं क्र मि तुं द्वि ती यं
र्वो का क्ष मा श्र मं ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.