Loading data... On slow networks this could take a few minutes.
100%

सर्वत्र नो वार्तमवेहि राज-
न्नाथे कुतस्त्वय्यशुभं प्रजानाम् ।
सूर्ये तपत्यावरणाय दृष्टेः
कल्पेत लोकस्य कथं तमिस्रा ॥

अन्वयः AI राजन्! सर्वत्र नः वार्तम् अवेहि। त्वयि नाथे (सति) प्रजानाम् अशुभं कुतः (भवेत्)? सूर्ये तपति (सति) तमिस्रा लोकस्य दृष्टेः आवरणाय कथं कल्पेत?
सञ्जीविनीटीका (मल्लिनाथः) सर्वत्रेति॥ हे राजन्! त्वं सर्वत्र नोऽस्माकं वार्तं स्वास्थ्यमवेहि जानीहि। वार्तं वल्गुन्यरोगे च इत्यमरः (अमरकोशः १.८.३ ) वार्तं पाटवमारोग्यं भव्यं स्वास्थ्यमनामयम् इति यादवः। न चैतदाश्चर्यमित्याह-नाथ इति। त्वयि नाथ ईश्वरे सति प्रजानामशुभं दुःखं कुतः? तथा हि-अर्थान्तरं न्यस्यति सूर्य इत्यादिना। सूर्ये तपति प्रकाशमाने सति तमिस्रा तमस्ततिः। तमिस्रं तिमिरं रोगे तमिस्रा तु समस्ततौ । कृष्णपक्षे निशायां च इति विश्वः। तमिस्रम् इति पाठे तमिस्रं तिमिरम्। तमिस्रं तिमिरं तमः इत्यमरः (अमरकोशः १.८.३ ) । लोकस्य जनस्य। लोकस्तु भुवने जने इत्यमरः (अमरकोशः ३.३.२ ) । दृष्टेरावरणाय कथं कल्पेत? दृष्टिमावरितुं नालमित्यर्थः। क्लृपेरलमर्थत्वात्तद्योगे नमःस्वस्ति- (अष्टाध्यायी २.३.१६ ) इत्यादिना चतुर्थी। अलमिति पर्याप्त्यर्थग्रहणम् इति भगवान्भाष्यकारः। कल्पेत। संपद्येत। न कल्पत इत्यर्थः। क्लृपि संपद्यमाने चतुर्थी (वा.१४५९) इति वक्तव्यात् ॥
Summary AI Kautsa tells King Raghu, "O King, know that we are well everywhere. With you as our protector, how can any misfortune befall the people? When the sun is shining, how can darkness possibly serve to cover the sight of the world?"
सारांश AI कौत्स ने कहा कि आपके जैसा रक्षक होने पर प्रजा का अमंगल असंभव है। सूर्य के प्रकाशमान होने पर अंधकार लोगों की दृष्टि को कैसे रोक सकता है?
पदच्छेदः AI
सर्वत्रसर्वत्र everywhere
नःअस्मद् (६.३) our
वार्तम्वार्त (२.१) well-being
अवेहिअवेहि (अव√इ कर्तरि लोट् (परस्मै.) म.पु. एक.) know
राजन्राजन् (८.१) O King
नाथेनाथ (७.१) as protector
कुतःकुतः from where
त्वयियुष्मद् (७.१) in you
अशुभम्अशुभ (१.१) misfortune
प्रजानाम्प्रजा (६.३) of the subjects
सूर्येसूर्य (७.१) when the sun
तपतितपत् (√तपत्+शतृ, ७.१) is shining
आवरणायआवरण (४.१) for covering
दृष्टेःदृष्टि (६.१) of sight
कल्पेतकल्पेत (√कृप् कर्तरि विधिलिङ् (आत्मने.) प्र.पु. एक.) can be capable
लोकस्यलोक (६.१) of the world
कथम्कथम् how
तमिस्रातमिस्रा (१.१) darkness
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
र्व त्र नो वा र्त वे हि रा
न्ना थे कु स्त्व य्य शु भं प्र जा नाम्
सू र्ये त्या णा दृ ष्टेः
ल्पे लो स्य थं मि स्रा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.