स त्वं प्रशस्ते महिते मदीये
वसंश्चतुर्थोऽग्निरिवाग्न्यगारे ।
द्वित्राण्यहान्यर्हसि सोढुमर्हन्
यावद्यते साधयितुं त्वदर्थम् ॥

अन्वयः AI अर्हन्! सः त्वं प्रशस्ते महिते मदीये अग्नि-अगारे चतुर्थः अग्निः इव वसन्, द्वित्राणि अहानि सोढुम् अर्हसि, यावत् अहं त्वत्-अर्थं साधयितुं यते।
सञ्जीविनीटीका (मल्लिनाथः) स इति॥ स त्वं महिते पूजिते प्रशस्ते प्रसिद्धे मदीयेऽग्न्यगारे त्रेताग्निशालायां चतुर्थोऽग्निरिव वसन् द्वित्राणि द्वे त्रीणि वाऽहानि दिनानि। संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये (अष्टाध्यायी २.२.२५ ) इति बहुव्रीहिः। बहुव्रीहौ संख्येये डजबहुगणात् (अष्टाध्यायी ५.४.७३ ) इति डच्प्रत्ययः समासान्तः। सोढुमर्हसि। हे अर्हन्मान्य! त्वदर्थं तव प्रयोजनं साधयितुं यावद्यते यतिष्ये। यावत्पुरानिपातयोर्लट् (अष्टाध्यायी ३.३.४ ) इति भविष्यदर्थे लट् ॥
Summary AI "Therefore, O worthy one, you should deign to wait for two or three days, dwelling in my praised and honored fire-sanctuary like a fourth sacred fire, while I strive to accomplish your purpose."
सारांश AI हे पूज्य! आप मेरी यज्ञशाला में चौथी अग्नि के समान दो-तीन दिन प्रतीक्षा करें, तब तक मैं आपके उद्देश्य की पूर्ति हेतु यत्न करता हूँ।
पदच्छेदः AI
सःतद् (१.१) That
त्वम्युष्मद् (१.१) you
प्रशस्तेप्रशस्त (७.१) in the praised
महितेमहित (७.१) honored
मदीयेमदीय (७.१) my
वसन्वसत् (√वस्+शतृ, १.१) dwelling
चतुर्थःचतुर्थ (१.१) as the fourth
अग्निःअग्नि (१.१) fire
इवइव like
अग्न्यगारेअग्निअगार (७.१) in the fire-sanctuary
द्वित्राणिद्वित्र (२.३) two or three
अहानिअहन् (२.३) days
अर्हसिअर्हसि (√अर्ह् कर्तरि लट् (परस्मै.) म.पु. एक.) you should
सोढुम्सोढुम् (√सह्+तुमुन्) to wait
अर्हन्अर्हत् (८.१) O worthy one
यावत्यावत् while
यतेयते (√यत् कर्तरि लट् (आत्मने.) उ.पु. एक.) I strive
साधयितुम्साधयितुम् (√साध्+णिच्+तुमुन्) to accomplish
त्वदर्थम्त्वद्अर्थ (२.१) your purpose
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
त्वं प्र स्ते हि ते दी ये
सं श्च तु र्थो ऽग्नि रि वा ग्न्य गा रे
द्वि त्रा ण्य हा न्य र्ह सि सो ढु र्ह
न्या द्य ते सा यि तुं त्व र्थम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.