आशास्यमन्यत्पुनरुक्तभूतं
श्रेयांसि सर्वाण्यधिजग्मुषस्ते ।
पुत्रं लभस्वात्मगुणानुरूपं
भवन्तमीड्यं भवतः पितेव ॥

अन्वयः AI सर्वाणि श्रेयांसि अधिजग्मुषः ते अन्यत् आशास्यम् पुनरुक्तभूतम् (अस्ति) । भवतः पिता इव भवन्तम् ईड्यम् आत्मगुणानुरूपम् पुत्रम् लभस्व ।
सञ्जीविनीटीका (मल्लिनाथः) आशास्यमिति॥ सर्वाणि श्रेयांसि शुभान्यधिजग्मुषः प्राप्तवतस्ते तवान्यत् पुत्रातिरिक्तमाशास्यमाशीः साध्यमाशंसनीयं वा पुनरुक्तभूतम्। सर्वं सिद्धमित्यर्थः। किं त्वीड्यं स्तुत्यं भवन्तं भवतः पितेवात्मगुणानुरूपम्। त्वया तुल्यगुणमित्यर्थः। पुत्रं लभस्व प्राप्नुहि ॥
Summary AI For you, who have attained all blessings, wishing for anything else is a mere repetition. Obtain a praiseworthy son, who is a match for your own virtues, just as your father obtained a praiseworthy son in you.
सारांश AI समस्त ऐश्वर्य प्राप्त आपके लिए मेरा यही आशीर्वाद है कि आप अपने पिता के समान ही अपने गुणों के अनुरूप श्रेष्ठ पुत्र प्राप्त करें।
पदच्छेदः AI
आशास्यम्आशास्य (आ√शंस्+ण्यत्, १.१) to be wished for
अन्यत्अन्यद् (१.१) other
पुनरुक्तभूतम्पुनरुक्तभूत (१.१) become a repetition
श्रेयांसिश्रेयस् (२.३) blessings
सर्वाणिसर्व (२.३) all
अधिजग्मुषःअधिजग्मिवस् (अधि√गम्+क्वसु, ६.१) of one who has attained
तेयुष्मद् (६.१) for you
पुत्रम्पुत्र (२.१) a son
लभस्वलभस्व (√लभ् कर्तरि लोट् (आत्मने.) म.पु. एक.) obtain
आत्मगुणानुरूपम्आत्मन्गुणअनुरूप (२.१) corresponding to your own virtues
भवन्तम्भवत् (२.१) you
ईड्यम्ईड्य (√ईड्+ण्यत्, २.१) praiseworthy
भवतःभवत् (६.१) your
पितापितृ (१.१) father
इवइव like
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
शा स्य न्य त्पु रु क्त भू तं
श्रे यां सि र्वा ण्य धि ग्मु स्ते
पु त्रं स्वा त्म गु णा नु रू पं
न्त मी ड्यं तः पि ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.