रूपं तदोजस्वि तदेव वीर्यं
तदेव नैसर्गिकमुन्नतत्वम् ।
न कारणात्स्वाद्बिभिदे कुमारः
प्रवर्तितो दीप इव प्रदीपात् ॥

अन्वयः AI तत् ओजस्वि रूपम्, तत् एव वीर्यम्, तत् एव नैसर्गिकम् उन्नतत्वम् (आसीत्) । कुमारः स्वात् कारणात् न बिभिदे, प्रदीपात् प्रवर्तितः दीपः इव ।
सञ्जीविनीटीका (मल्लिनाथः) रूपमिति॥ ओजस्वि तेजस्वि बलिष्ठं वा। ओजस्तेजसि धातूनामवष्टम्भप्रकाशयोः। ओजो बले च दीप्तौ च इति विश्वः। रूपं वपुः। अथ रूपं नपुंसकम्। स्वभावाकृतिसौन्दर्यवपुषि श्लोकशब्दयोः। इति विश्वः। तदेव पैतृकमेव । वीर्यं शौर्यं तदेव। नैसर्गिकं स्वाभाविकमुन्नतत्वं तदेव। तादृशमेवेत्यर्थः। कुमारो बालकः। प्रवर्तित उत्पादितो दीपः प्रदीपात् स्वोत्पादकदीपादिव। स्वात्स्वकीयात्। पूर्वादिभ्यो नवभ्यो वा (अष्टाध्यायी ७.१.१६ ) इति स्माद्भावो वैकल्पिकः। कारणाज्जनकान्न बिभिदे भिन्नो नाभूत्। सर्वात्मनातादृश एवाभूदित्यर्थः ॥
Summary AI He had the same splendid form, the same prowess, and the same natural nobility. The prince did not differ from his own cause (his father), just as a lamp lit from another lamp does not differ from it.
सारांश AI वह राजकुमार अपने कारण (पिता) के समान ही ओजस्वी, वीर्यवान और उन्नत था, जैसे एक प्रज्ज्वलित दीपक से जलाया गया दूसरा दीपक होता है।
पदच्छेदः AI
रूपम्रूप (१.१) form
तत्तद् (१.१) that
ओजस्विओजस्विन् (१.१) vigorous
तत्तद् (१.१) that
एवएव same
वीर्यम्वीर्य (१.१) prowess
तत्तद् (१.१) that
एवएव same
नैसर्गिकम्नैसर्गिक (१.१) natural
उन्नतत्वम्उन्नतत्व (१.१) nobility
not
कारणात्कारण (५.१) from the cause (father)
स्वात्स्व (५.१) from his own
बिभिदेबिभिदे (√भिद् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) differed
कुमारःकुमार (१.१) the prince
प्रवर्तितःप्रवर्तित (प्र√वृत्+णिच्+क्त, १.१) lit
दीपःदीप (१.१) a lamp
इवइव like
प्रदीपात्प्रदीप (५.१) from another lamp
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
रू पं दो स्वि दे वी र्यं
दे नै र्गि मु न्न त्वम्
का णा त्स्वा द्बि भि दे कु मा रः
प्र र्ति तो दी प्र दी पात्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.