तस्योपकार्यारचितोपचारा
वन्येतरा जानपदोपदाभिः ।
मार्गे निवासा मनुजेन्द्रसूनो-
र्बभूवुरुद्यानविहारकल्पाः ॥

अन्वयः AI मार्गे मनुजेन्द्रसूनोः तस्य जानपद-उपदाभिः वन्य-इतराः उपकार्या-रचित-उपचाराः निवासाः उद्यान-विहार-कल्पाः बभूवुः ।
सञ्जीविनीटीका (मल्लिनाथः) तस्येति॥ उपकार्यासु राजयोग्येषु पटभवनादिषु। सौधोऽस्त्री राजसदनमुपकार्योपकारिका इत्यमरवचनव्याख्याने क्षीरस्वामी। उपक्रियत उपकरोति वा पटमण्डपादि राजसदनमिति। रचिता उपचाराः शयनादयो येषु ते तथोक्ताः। जानपदानां जनपदेभ्य आगतानामुपदाभिरुपायनैः। वन्या वने भवा इतरे येषां ते वन्येतराः। अवन्या इत्यर्थः। न बहुव्रीहौ (अष्टाध्यायी १.१.२९ ) इति सर्वनामसंज्ञानिषेधः। तत्पुरुषे सर्वनामसंज्ञा दुर्वारैव। तस्य मनुजेन्द्रसूनोरजस्य मार्गे निवासा वासनिका उद्यानान्याक्रीडाः। पुमानाक्रीड उद्यानम् इत्यमरः (अमरकोशः २.४.३ ) । तान्येव विहारा विहारस्थानानि तत्कल्पाः। तत्सदृशा इत्यर्थः। ईषदसमाप्तौ- (अष्टाध्यायी ५.३.६७ ) इति कल्पप्प्रत्ययः। बभूवुः ॥
Summary AI On the way, the encampments for the prince, furnished with services in temporary residences and supplied with gifts from the country-folk, became like pleasure-strolls in a garden.
सारांश AI मार्ग में प्रजा द्वारा दी गई भेंटों और सुसज्जित शिविरों ने राजकुमार अज के विश्राम स्थलों को उद्यानों में विहार करने के समान सुखद बना दिया।
पदच्छेदः AI
तस्यतद् (६.१) his
उपकार्यारचितोपचाराःउपकार्यरचितउपचार (१.३) where services were rendered in temporary residences
वन्येतराःवन्यइतर (१.३) other than wild (civilized)
जानपदोपदाभिःजानपदउपदा (३.३) with gifts from the country-folk
मार्गेमार्ग (७.१) on the way
निवासाःनिवास (१.३) the encampments
मनुजेन्द्रसूनोःमनुजेन्द्रसूनु (६.१) of the prince
बभूवुःबभूवुः (√भू कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) became
उद्यानविहारकल्पाःउद्यानविहारकल्प (१.३) like pleasure-strolls in a garden
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
स्यो का र्या चि तो चा रा
न्ये रा जा दो दा भिः
मा र्गे नि वा सा नु जे न्द्र सू नो
र्ब भू वु रु द्या वि हा ल्पाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.