५.४६

शैलोपमः शैवलमञ्जरीणां जालानि कर्षन्नुरसा स पश्चात् ।
पूर्वं तदुत्पीडितवारिराशिः सरित्प्रवाहस्तटमुत्ससर्प ॥

अन्वयः

पश्चात् शैल-उपमः सः उरसा शैवल-मञ्जरीणाम् जालानि कर्षन् (आगच्छति स्म) । पूर्वम् तत्-उत्पीडित-वारि-राशिः सरित्-प्रवाहः तटम् उत्ससर्प ।

सञ्जीविनीटीका (मल्लिनाथः)

शैलेति॥ शैलोपमः स गजः शैवलमञ्जरीणां जालानि वृन्दान्युरसा कर्षन् पश्चात्तटमुत्ससर्प। पूर्वं तेन गजेनोत्पीडितो नुन्नो वारिराशिर्यस्य स सरित्प्रवाहस्तटमुत्ससर्प ॥

English Summary

First, the river's current, a mass of water displaced by the elephant, surged towards the bank. Afterwards, the mountain-like elephant itself followed, dragging masses of moss-clusters with its chest.

पदच्छेदः

शैलोपमःशैल–उपमा (१.१) mountain-like
शैवलमञ्जरीणाम्शैवल–मञ्जरी (६.३) of clusters of moss
जालानिजाल (२.३) masses
कर्षन्कर्षत् (√कृष्+शतृ, १.१) dragging
उरसाउरस् (३.१) with its chest
सःतद् (१.१) he (the elephant)
पश्चात्पश्चात् afterwards
पूर्वम्पूर्वम् first
तदुत्पीडितवारिराशिःतत्–उत्पीडित–वारि–राशि (१.१) the mass of water displaced by it
सरित्प्रवाहःसरित्–प्रवाह (१.१) the river's current
तटम्तट (२.१) the bank
उत्ससर्पउत्ससर्प (उद्√सृप् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) surged towards

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
शै लो मः शैञ्ज री णां
जा लानि र्षन्नु सा श्चात्
पू र्वं दु त्पीडि वारि रा शिः
रित्प्र वास्त मुत्सर्प