कायेन वाचा मनसापि शश्व-
द्यत्संभृतं वासवधैर्यलोपि ।
आपाद्यते न व्ययमन्तरायैः
कञ्चिन्महर्षेस्त्त्रिविधं तपस्तत् ॥

अन्वयः AI महर्षेः कायेन वाचा मनसा अपि शश्वत् यत् वासवधैर्यलोपि त्रिविधम् तपः संभृतम्, तत् अन्तरायैः व्ययम् न आपाद्यते कञ्चित्?
सञ्जीविनीटीका (मल्लिनाथः) कायेनेति॥ कायेनोपवासादिकृच्छ्रचान्द्रायणादिना वाचा वेदपाठेन मनसा गायत्रीजपादिना कायेन वाचा मनसापि करणेन वासवस्येन्द्रस्य धैर्यं लुम्पतीति वासवधैर्यलोपि। स्वपदापहारशङ्काजनकमित्यर्थः। यत्तपः शश्वदसकृत्। मुहुः पुनः पुनः शश्वदभीक्ष्णससकृत्समाः इत्यमरः। संभृतं संचितं महर्षेर्वरतन्तोस्त्त्रिविधं वाङ्मनः कायजं तत्तपोऽन्तरायैर्विघ्नैरिन्द्रप्रेरिताप्सरः शापैर्व्ययं नाशं नापाद्यते कञ्चित् न नीयते किम्? कञ्चित् कामप्रवेदने इत्यमरः॥
Summary AI "I hope that the great sage's three-fold penance—constantly accumulated through body, speech, and mind, and potent enough to shatter even Indra's fortitude—is not being wasted by any obstacles?"
सारांश AI क्या महर्षि का मन, वचन और शरीर से किया जाने वाला वह त्रिविध तप निर्विघ्न चल रहा है, जो इन्द्र के धैर्य को भी विचलित कर देने वाला है?
पदच्छेदः AI
कायेनकाय (३.१) by body
वाचावाच् (३.१) by speech
मनसामनस् (३.१) by mind
अपिअपि also
शश्वत्शश्वत् constantly
यत्यद् (१.१) which
संभृतम्संभृत (सम्√भृ+क्त, १.१) is accumulated
वासवधैर्यलोपिवासवधैर्यलोपिन् (१.१) that which destroys Indra's fortitude
आपाद्यतेआपाद्यते (आ√पद् +णिच् भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is brought to
not
व्ययम्व्यय (२.१) destruction
अन्तरायैःअन्तराय (३.३) by obstacles
कञ्चित्कञ्चित् I hope
महर्षेःमहर्षि (६.१) of the great sage
तत्तद् (१.१) that
त्रिविधम्त्रिविध (१.१) three-fold
तपःतपस् (१.१) austerity
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
का ये वा चा सा पि श्व
द्य त्सं भृ तं वा धै र्य लो पि
पा द्य ते व्य न्त रा यैः
ञ्चि न्म र्षे स्त्त्रि वि धं स्तत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.