तथेत्युपस्पृश्य पयः पवित्रं
सोमोद्भवायाः सरितो नृसोमः ।
उदङ्मुखः सोऽस्त्रविदस्त्रमन्त्रं
जग्राह तस्मान्निगृहीतशापात् ॥

अन्वयः AI नृ-सोमः सः अस्त्रवित् तथा इति (उक्त्वा) सोम-उद्भवायाः सरितः पवित्रं पयः उपस्पृश्य, उदङ्मुखः (सन्) निगृहीत-शापात् तस्मात् अस्त्रमन्त्रं जग्राह ।
सञ्जीविनीटीका (मल्लिनाथः) तथेति॥ ना सोमश्चन्द्र इव नृसोमः। उपमितसमासः। सोम ओषधिचन्द्रयोः इति शाश्वतः। पुरुषश्रेष्ठ इत्यर्थः। अस्त्रविदस्त्रज्ञः सोऽजः। तथा इति। सोम उद्भवो यस्याः सा तस्याः सोमोद्भवायाः सरितो नर्मदायाः। रेवा तु नर्मदा सोमोद्भवा मेखलकन्यका इत्यमरः। पवित्रं पय उपस्पृश्य पीत्वा। आचम्येत्यर्थः। उदङ्मुखः सन्निगृहीतऽशापान्निवर्तितशापात्। उपकृतादित्यर्थः। तस्मात् प्रियंवदादस्त्रमन्त्रं जग्राह ॥
Summary AI Saying 'So be it,' Aja, that moon among men and expert in weapons, touched the holy water of the river born from the moon (Narmada). Facing north, he received the weapon's mantra from the Gandharva, whose curse was now controlled.
सारांश AI अज ने नर्मदा के पवित्र जल से आचमन कर उत्तर की ओर मुख किया और उस शापमुक्त गंधर्व से संमोहन अस्त्र की विधि विधानपूर्वक सीख ली।
पदच्छेदः AI
तथातथा So be it
इतिइति thus
उपस्पृश्यउपस्पृश्य (उप√स्पृश्+ल्यप्) having touched
पयःपयस् (२.१) water
पवित्रंपवित्र (२.१) holy
सोमोद्भवायाःसोम–उद्भवा (६.१) of the moon-born
सरितःसरित् (६.१) river's
नृसोमःनृसोम (१.१) the moon among men (Aja)
उदङ्मुखःउदङ्मुख (१.१) facing north
सःतद् (१.१) he
अस्त्रवित्अस्त्रविद् (१.१) the weapon-knower
अस्त्रमन्त्रंअस्त्रमन्त्र (२.१) the weapon's mantra
जग्राहजग्राह (√ग्रह् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) received
तस्मात्तद् (५.१) from him
निगृहीतशापात्निगृहीतशाप (५.१) from the one whose curse was controlled
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
थे त्यु स्पृ श्य यः वि त्रं
सो मो द्भ वा याः रि तो नृ सो मः
ङ्मु खः सो ऽस्त्र वि स्त्र न्त्रं
ग्रा स्मा न्नि गृ ही शा पात्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.