वृन्ताच्छ्लथं हरति पुष्पमनोकहानां
संसृज्यते सरसिजैररुणांशुभिन्नैः ।
स्वाभाविकं परगुणेन विभातवायुः
सौरभ्यमीप्सुरिव ते मुखमारुतस्य ॥

अन्वयः AI विभात-वायुः ते मुख-मारुतस्य स्वाभाविकं सौरभ्यं पर-गुणेन (वर्धयितुम्) ईप्सुः इव, अनोकहानां वृन्तात् श्लथं पुष्पं हरति, अरुण-अंशु-भिन्नैः सरसिजैः संसृज्यते च ।
सञ्जीविनीटीका (मल्लिनाथः) वृन्तादिति॥ विभातवायुः प्रभातवायुः स्वाभाविकं नैसर्गितं ते तव मुखमारुतस्य निःश्वासपवनस्य सौरभ्यम्। तादृक्सौगन्ध्यमित्यर्थः। परगुणेनान्यदीयगुणेन। सांक्रामिकगन्धेनेत्यर्थः। ईप्सुराप्नुमिच्छुरिव। आप्ज्ञप्यृधामीत् (अष्टाध्यायी ७.४.५५ ) इतीकारादेशः। अनोकहानां वृक्षाणां श्लथं शिथिलं पुष्पं वृन्तात् प्रसवबन्धनात्। वृन्तं प्रसवबन्धनम् इत्यमरः (अमरकोशः २.४.१५ ) । हरत्यादत्ते। अरुणांशुभिन्नैस्तरणिकिरणोद्बोधितैः सरसि जातैः सरसिजैः कमलैः सह। तत्पुरुषे कृति बहुलम् (अष्टाध्यायी ६.३.१४ ) इति सप्तम्या अलुक्। संसृज्यते संगच्छते। सृजेर्दैवादिकात्कर्तरि लट् ॥
Summary AI The morning breeze, as if desiring to enhance the natural fragrance of your breath with an external quality, carries flowers loosened from the stalks of trees and mingles with lotuses opened by the rays of dawn.
सारांश AI प्रातःकालीन वायु वृक्षों से झड़े फूलों को समेट रही है और खिले हुए कमलों का स्पर्श कर रही है। ऐसा प्रतीत होता है मानो वह वायु आपके मुख की स्वाभाविक सुगंध को प्राप्त करना चाहती हो।
पदच्छेदः AI
वृन्तात्वृन्त (५.१) from the stalk
श्लथंश्लथ (२.१) loosened
हरतिहरति (√हृ कर्तरि लट् (परस्मै.) प्र.पु. एक.) carries
पुष्पम्पुष्प (२.१) flowers
अनोकहानांअनोकह (६.३) of trees
संसृज्यतेसंसृज्यते (सम्√सृज् भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) mingles
सरसिजैःसरसिज (३.३) with lotuses
अरुणांशुभिन्नैःअरुणअंशुभिन्न (३.३) opened by the rays of dawn
स्वाभाविकंस्वाभाविक (२.१) natural
परगुणेनपरगुण (३.१) with an external quality
विभातवायुःविभातवायु (१.१) the morning breeze
सौरभ्यम्सौरभ्य (२.१) fragrance
ईप्सुरिवईप्सु (√आप्+सन्+उ, १.१)इव as if desiring
तेयुष्मद् (६.१) your
मुखमारुतस्यमुखमारुत (६.१) of the breath of the mouth
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
वृ न्ता च्छ्ल थं ति पु ष्प नो हा नां
सं सृ ज्य ते सि जै रु णां शु भि न्नैः
स्वा भा वि कं गु णे वि भा वा युः
सौ भ्य मी प्सु रि ते मु मा रु स्य
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.