Loading data... On slow networks this could take a few minutes.
100%

दीर्घेष्वमी नियमिताः पटमण्डपेषु
निद्रां विहाय वनजाक्ष वनायुदेश्याः ।
वक्त्रोष्मणा मलिनयन्ति पुरोगतानि
लेह्यानि सैन्धवशिलाशकलानि वाहाः ॥

अन्वयः AI वनज-अक्ष! दीर्घेषु पटमण्डपेषु नियमिताः अमी वनायु-देश्याः वाहाः निद्राम् विहाय वक्त्र-उष्मणा पुरः-गतानि लेह्यानि सैन्धव-शिला-शकलानि मलिनयन्ति।
सञ्जीविनीटीका (मल्लिनाथः) दीर्घेष्विति॥ हे वनजाक्ष नीरजाक्ष! वनं नीरं वनं सत्त्वम् इति शाश्वतः। दीर्घेषु पटमण्डपेषु नियमिता बद्धा वनायुदेश्या वनायुदेशे भवाः। पारसीका वनायुजाः इति हलायुधः। अमी वाहा अश्वा निद्रां विहाय पुरोगतानि लेह्यान्यास्व्नाद्यानि सैन्धवशिलाशकनलानि। सैन्धवोऽस्त्त्री सितशिवं माणिमन्थं च सिन्धुजे इत्यमरः। वक्त्रोष्मणा मलिनयन्ति मलिनानि कुर्वन्ति। उक्तं च सिद्धयोगसंग्रहे-पूर्वाह्णकाले चाश्वानां प्रयाशो लवणं हितम्। शूलानाहविबन्धघ्नं लवणं सैन्धवं वरम् ॥ इत्यादि ॥
Summary AI Bards tell Prince Aja: "O lotus-eyed one! The horses from Vanayu, tethered in the long tent-pavilions, have given up sleep. With the heat of their breath, they are soiling the pieces of rock salt placed before them to be licked."
सारांश AI तम्बुओं में बंधे वनायु देश के उत्तम घोड़े अपनी नींद त्याग कर सामने रखे हुए सेंधा नमक के टुकड़ों को चाट रहे हैं और अपनी गर्म श्वासों से उन्हें धुंधला कर रहे हैं।
पदच्छेदः AI
दीर्घेषुदीर्घ (७.३) in the long
अमीअदस् (१.३) these
नियमिताःनियमित (नि√यम्+क्त, १.३) tethered
पटमण्डपेषुपटमण्डप (७.३) in the tent-pavilions
निद्राम्निद्रा (२.१) sleep
विहायविहाय (वि√हा+ल्यप्) having abandoned
वनजाक्षवनजअक्ष (८.१) O lotus-eyed one
वनायुदेश्याःवनायुदेश्य (१.३) originating from Vanayu country
वक्त्रोष्मणावक्त्रउष्मन् (३.१) with the heat of their breath
मलिनयन्तिमलिनयन्ति (√मलिनय कर्तरि लट् (परस्मै.) प्र.पु. बहु.) are soiling
पुरोगतानिपुरस्गत (२.३) placed before
लेह्यानिलेह्य (√लिह्+ण्यत्, २.३) to be licked
सैन्धवशिलाशकलानिसैन्धवशिलाशकल (२.३) pieces of rock-salt
वाहाःवाह (१.३) the horses
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
दी र्घे ष्व मी नि मि ताः ण्ड पे षु
नि द्रां वि हा जा क्ष ना यु दे श्याः
क्त्रो ष्म णा लि न्ति पु रो ता नि
ले ह्या नि सै न्ध शि ला ला नि वा हाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.