भवति विरलभक्तिर्म्लानपुष्पोपहारः
स्वकिरणपरिवेषोद्भेदशून्याः प्रदीपाः ।
अयमपि च गिरं नस्त्वत्प्रवोधप्रयुक्ता-
मनुवदति शुकस्ते मञ्जुवाक्यञ्जरस्थः ॥

अन्वयः AI म्लान-पुष्प-उपहारः विरल-भक्तिः भवति। प्रदीपाः स्व-किरण-परिवेष-उद्भेद-शून्याः (भवन्ति)। च अयम् पञ्जरस्थः मञ्जु-वाक् शुकः अपि ते त्वत्-प्रबोध-प्रयुक्ताम् नः गिरम् अनुवदति।
सञ्जीविनीटीका (मल्लिनाथः) भवतीति। म्लानः पुष्पोपहारः पुष्पपूजा म्लानत्वादेव विरलभक्तिर्विरलरचनो भवति। प्रदीपाश्च स्वकिरणानां परिवेषस्य मण्डलस्योद्भेदेन स्फुरणेन शून्या भवन्ति, निस्तेजस्का भवन्तीत्यर्थः। अपि चायं मञ्जुवाङ्मधुरवचनः पञ्चरस्थस्ते तव शुकस्त्वत्प्रबोधनिमित्ते प्रयुक्तामुञ्चारितां नोऽस्माकं गिरं वाणीमनुवदति, अनुकृत्य वदतीत्यर्थः। इत्थं प्रभातलिङ्गानि वर्तन्ते, अतः प्रबोद्धव्यमिति भावः ॥
Summary AI The offering of faded flowers has sparse beauty. The lamps are devoid of their radiating halos of light. And this sweet-voiced parrot in its cage is also repeating our words, which are meant to awaken you.
सारांश AI पुष्पमालाएं कुम्हला गई हैं और दीपकों की लौ फीकी पड़ गई है। पिंजरे में बैठा आपका पालतू तोता भी हमें जगाने के लिए हमारे द्वारा कहे गए मधुर वचनों को दोहरा रहा है।
पदच्छेदः AI
भवतिभवति (√भू कर्तरि लट् (परस्मै.) प्र.पु. एक.) is
विरलभक्तिःविरलभक्ति (१.१) with sparse beauty
म्लानपुष्पोपहारःम्लानपुष्पउपहार (१.१) the offering of faded flowers
स्वकिरणपरिवेषोद्भेदशून्याःस्वकिरणपरिवेषउद्भेदशून्य (१.३) devoid of the manifestation of their halos of rays
प्रदीपाःप्रदीप (१.३) the lamps
अयम्इदम् (१.१) this
अपिअपि also
and
गिरम्गिर् (२.१) the words
नःअस्मद् (६.३) our
त्वत्प्रबोधप्रयुक्ताम्त्वत्प्रबोधप्रयुक्त (२.१) intended for your awakening
अनुवदतिअनुवदति (अनु√वद् कर्तरि लट् (परस्मै.) प्र.पु. एक.) repeats
शुकःशुक (१.१) parrot
तेयुष्मद् (६.१) your
मञ्जुवाक्मञ्जुवाच् (१.१) sweet-voiced
पञ्जरस्थःपञ्जरस्थ (१.१) situated in the cage
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
ति वि क्ति र्म्ला पु ष्पो हा रः
स्व कि रि वे षो द्भे शू न्याः प्र दी पाः
पि गि रं स्त्व त्प्र वो प्र यु क्ता
नु ति शु स्ते ञ्जु वा क्य ञ्ज स्थः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.