निर्वर्त्यते यैर्नियमाभिषेको
येभ्यो निवापाञ्जलयः पितॄणाम् ।
तान्युञ्छषष्ठाङ्कितसैकतानि
शिवानि वस्तीर्थजलानि कञ्चित् ॥

अन्वयः AI यैः नियमाभिषेकः निर्वर्त्यते, येभ्यः पितॄणाम् निवापाञ्जलयः (दीयन्ते), तानि उञ्छषष्ठाङ्कितसैकतानि वः तीर्थजलानि कञ्चित् शिवानि (सन्ति)?
सञ्जीविनीटीका (मल्लिनाथः) निर्वर्त्यत इति॥ यैस्तीर्थजलैर्नियमाभिषेको नित्यस्नानादिर्निर्वर्त्यते निष्पाद्यते। येभ्यो जलेभ्यः। उद्धृत्येति शेषः। पितॄणामग्निष्वात्तादीनां निवापाञ्जलयस्तर्पणाञ्जलयः। पितृदानं निवापः स्यात् इत्यमरः (अमरकोशः २.७.३३ ) । निर्वर्त्यन्ते। उञ्छानां प्रकीर्णोद्धृतधान्यानां षष्टैः षष्ठभागैः पालकत्वाद्राजग्राहैरङ्कितानि सैकतानि पुनिनानि येषां तानि तथोक्तानि वो युष्माकं तानि तीर्थजलानि शिवानि भद्राणि कञ्चित्? अनुपप्लवानि किमित्यर्थः। उञ्छो धान्यांशकादानं कणिशाद्यर्जनं शिलम् इति यादवः। ।षष्टाष्टमाभ्यां ञ च (अष्टाध्यायी ५.३.५० ) इति षष्ठशब्दाद्भागार्थेऽन्प्रत्ययः। अत एवापूरणार्थत्वात् पूरणगुण- (अष्टाध्यायी २.२.११ ) इत्यादिना न षष्ठीसमासप्रतिषेधः। सिकता येषु सन्ति सैकतानि। सिकताशर्कराभ्यां च (अष्टाध्यायी ५.२.१०४ ) इत्यण्प्रत्ययः ॥
Summary AI "I hope the sacred waters of your hermitage are pure and auspicious? The waters with which you perform your ritual baths, from which you offer libations to your ancestors, and whose sandy banks are marked with the one-sixth portion of gleaned grains offered as tax."
सारांश AI क्या वे तीर्थ जल कल्याणकारी हैं जहाँ आप स्नान और तर्पण करते हैं तथा जिनके तटों की बालू पर मुनियों द्वारा एकत्रित अन्न के कण बिखरे रहते हैं?
पदच्छेदः AI
निर्वर्त्यतेनिर्वर्त्यते (निर्√वृत् भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is accomplished
यैःयद् (३.३) by which
नियमाभिषेकःनियमअभिषेक (१.१) the ritual bath
येभ्यःयद् (४.३) to which
निवापाञ्जलयःनिवापअञ्जलि (१.३) handfuls of offerings to the manes
पितॄणाम्पितृ (६.३) of the ancestors
तानितद् (१.३) those
उञ्छषष्ठाङ्कितसैकतानिउञ्छषष्ठअङ्कितसैकत (१.३) whose sandy banks are marked with a sixth part of gleaned grains
शिवानिशिव (१.३) auspicious
वःयुष्मद् (६.३) your
तीर्थजलानितीर्थजल (१.३) sacred waters
कञ्चित्कञ्चित् I hope
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
नि र्व र्त्य ते यै र्नि मा भि षे को
ये भ्यो नि वा पा ञ्ज यः पि तॄ णाम्
ता न्यु ञ्छ ष्ठा ङ्कि सै ता नि
शि वा नि स्ती र्थ ला नि ञ्चित्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.