स तत्र मञ्चेषु मनोज्ञवेषा-
न्सिंहासनस्थानुपचारवत्सु ।
वैमानिकानां मरुतामपश्य-
दाकृष्टलीलान्नरलोकपालान् ॥

अन्वयः AI सः तत्र उपचारवत्सु मञ्चेषु सिंहासन-स्थान्, मनोज्ञ-वेषान्, वैमानिकानाम् मरुताम् लीलाम् आकृष्टवतः इव नर-लोक-पालान् अपश्यत्।
सञ्जीविनीटीका (मल्लिनाथः) स इति॥ सोऽजस्तत्र स्थान उपचारवत्सु राजोपकरणवत्सु मञ्चेषु पर्यङ्केषु सिंहासनस्थान् मनोज्ञवेषान् मनोहरनेपथ्यान् वैमानिकानां विमानैश्चरताम्। चरति (अष्टाध्यायी ४.४.८ ) इति ठक्प्रत्ययः। मरुताममराणाम्। मरुतौ पवनामरौ इत्यमरः (अमरकोशः ३.३.६६ ) । आकृष्टलीलान् गृहीतसौभाग्यान्। आकृष्टमरुल्लीलानित्यर्थः। सापेक्षत्वेऽपि गमकत्वात्समासः। नरलोकं पालयन्तीति नरलोकपालाः। कर्मण्यण्प्रत्ययः। तान्भूपालानपश्यत्। सर्गेऽस्मिन्नुपजातिश्छन्दः ॥
Summary AI There, he saw the kings seated on thrones upon well-furnished stages. Dressed handsomely, they seemed to have borrowed the grace of the gods who travel in celestial chariots, thus appearing as divine beings themselves.
सारांश AI अज ने सुंदर वेशभूषा में सिंहासनों पर बैठे उन राजाओं को देखा, जो विमानों में स्थित देवताओं के समान शोभा पा रहे थे।
पदच्छेदः AI
सःतद् (१.१) he
तत्रतत्र there
मञ्चेषुमञ्च (७.३) on the stages
मनोज्ञवेषान्मनोज्ञवेष (२.३) handsomely dressed
सिंहासनस्थान्सिंहासनस्थ (२.३) seated on thrones
उपचारवत्सुउपचारवत् (७.३) on the well-furnished
वैमानिकानाम्वैमानिक (६.३) of the celestial beings
मरुताम्मरुत् (६.३) of the gods
अपश्यत्अपश्यत् (√दृश् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) he saw
आकृष्टलीलान्आकृष्टलीला (२.३) who had borrowed the grace
नरलोकपालान्नरलोकपाल (२.३) the rulers of men
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
त्र ञ्चे षु नो ज्ञ वे षा
न्सिं हा स्था नु चा त्सु
वै मा नि का नां रु ता श्य
दा कृ ष्ट ली ला न्न लो पा लान्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.