Loading data... On slow networks this could take a few minutes.
100%

कुशेशयाताम्रतलेन कश्चि-
त्करेण रेखाध्वजलाञ्छनेन ।
रत्नाङ्गुलीयप्रभयानुविद्धा-
नुदीरयामास सलीलमक्षान् ॥

अन्वयः AI कश्चित् कुशेशयाताम्रतलेन रेखाध्वजलाञ्छनेन करेण रत्न-अङ्गुलीय-प्रभया अनुविद्धान् अक्षान् सलीलम् उदीरयामास ।
सञ्जीविनीटीका (मल्लिनाथः) कुशेशयेति॥ कश्चिद्राजा कुशेशयं शतपत्रमिवाताम्रं तलं यस्य तेन। शतपत्रं कुशेशयम् इत्यमरः (अमरकोशः १.१०.४० ) । रेखारूपो ध्वजो लाञ्छनं यस्य तेन करेण। अङ्गुलिषु भवान्यङ्गुलीयान्यूर्मिकाः। अङ्गुलीयकमूर्मिका इत्यमरः (अमरकोशः २.६.१०८ ) जिह्वामूलाङ्गुलेश्छः (अष्टाध्यायी ४.३.६२ ) इति छप्रत्ययः। रत्नानामङ्गुलीयानि तेषां प्रभयाऽनुविद्धान् व्याप्तानक्षान् पाशान्। अक्षास्तु देवनाः पाशकाश्च ते इत्यमरः (अमरकोशः १.१०.४० ) । सलीलमुदीरयामासोञ्चिक्षेप। अहं त्वया सहैवं रंस्ये-इति नृपाभिप्रायः। अक्षचातुर्ये कापुरुषोऽयम्- इतीन्दुमत्यभिप्रायः। अक्षार्मा दीव्यः इति श्रुतिनिषेधात् ॥
Summary AI A certain king, with his hand—its palm reddish like a lotus and marked with lines resembling banners—playfully tossed the dice, which were mingled with the splendor of his jeweled rings.
सारांश AI किसी राजा ने अपनी हथेली में रखे पासों को उछाला, जिससे उसकी उंगलियों में पहनी रत्नों की अंगूठियों की किरणें उन पर चमकने लगीं।
पदच्छेदः AI
कुशेशयाताम्रतलेनकुशेशयआताम्रतल (३.१) with a palm reddish like a lotus
कश्चित्किम्-चित् (१.१) a certain one
करेणकर (३.१) with the hand
रेखाध्वजलाञ्छनेनरेखाध्वजलाञ्छन (३.१) marked with lines and banners
रत्नाङ्गुलीयप्रभयानुविद्धान्रत्नअङ्गुलीयप्रभाअनुविद्ध (२.३) mingled with the splendor of jeweled rings
उदीरयामासउदीरयामास (उद्√ईर् +णिच् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) tossed up
सलीलम्सलील playfully
अक्षान्अक्ष (२.३) the dice
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
कु शे या ता म्र ले श्चि
त्क रे रे खा ध्व ला ञ्छ ने
त्ना ङ्गु ली प्र या नु वि द्धा
नु दी या मा ली क्षान्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.