Loading data... On slow networks this could take a few minutes.
100%

असौ शरण्यः शरणोन्मुखाना-
मगाधसत्त्वो मगधप्रतिष्ठः ।
राजा प्रजारञ्जनलब्धवर्णः
परंतपो नाम यथार्थनामा ॥

अन्वयः AI असौ शरणोन्मुखानां शरण्यः, अगाधसत्त्वः, मगधप्रतिष्ठः, प्रजारञ्जनलब्धवर्णः, यथार्थनामा, परंतपः नाम राजा अस्ति ।
सञ्जीविनीटीका (मल्लिनाथः) असाविति॥ असौ राजा। असौ इति पुरोवर्तिनो निर्देशः। एवमुत्तरत्रापि द्रष्टव्यम्। शरणोन्मुखानां शरणार्थिनां शरण्यः शरणे रक्षणे साधुः। इति यत्प्रत्ययः। शरणं भवितुमर्हः शरण्य इति-नाथनिरुक्तिर्निर्मूलैव। अगाधसत्त्वो गम्भीरस्वभावः। सत्त्वं गुणे पिशाचादौ बले द्रव्यस्वभावयोः इति विश्वः। मगधा जनपदाः, तेषु प्रतिष्ठास्पदं यस्य स मगधप्रतिष्ठः। प्रतिष्ठाकृत्यमास्पदम् इत्यमरः (अमरकोशः ३.३.१०१ ) । प्रजारञ्जने लब्धवर्णो विचक्षणः। यद्वा, -प्रजारञ्जनेन लब्धोत्कर्षः। पराञ्शत्रूंस्तापयतीति परंतपः परंतपाख्यः। द्विषत्परयोस्तापेः (अष्टाध्यायी ३.२.३९ ) । इति खच्प्रत्ययः। खचि ह्रस्वः (अष्टाध्यायी ६.४.९४ ) इति ह्रस्वः। अरुर्द्विषदजन्तस्य मुम् (अष्टाध्यायी ६.३.६७ ) इति मुमागमः। नामेति प्रसिद्धौ। यथार्थनामा। शत्रुसंतापनादिति भावः ॥
Summary AI "This is the king named Parantapa, a refuge for those seeking protection. He is of profound strength, the ruler of Magadha, and has earned fame by delighting his subjects. His name, 'scorcher of foes,' is true to its meaning."
सारांश AI ये मगध के राजा परंतप हैं, जो शरणार्थियों के रक्षक, अत्यंत गंभीर और प्रजा को प्रसन्न करने वाले हैं। इनका नाम इनके शत्रुओं को संताप देने वाले गुणों के कारण सर्वथा सार्थक है।
पदच्छेदः AI
असौअदस् (१.१) this
शरण्यःशरण्य (१.१) a refuge
शरणोन्मुखानाम्शरणउन्मुख (६.३) for those seeking refuge
अगाधसत्त्वःअगाधसत्त्व (१.१) of profound strength
मगधप्रतिष्ठःमगधप्रतिष्ठ (१.१) the ruler of Magadha
राजाराजन् (१.१) king
प्रजारञ्जनलब्धवर्णःप्रजारञ्जनलब्धवर्ण (१.१) who has gained fame by pleasing his subjects
परंतपःपरंतप (१.१) Parantapa (scorcher of foes)
नामनाम by name
यथार्थनामायथार्थनामन् (१.१) whose name is true to its meaning
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
सौ ण्यः णो न्मु खा ना
गा त्त्वो प्र ति ष्ठः
रा जा प्र जा ञ्ज ब्ध र्णः
रं पो ना था र्थ ना मा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.