वैदर्भनिर्दिष्टमसौ कुमारः
क्लृप्तेन सोपानपथेन मञ्चम् ।
शिलाविभङ्गैर्मृगराजशाव-
स्तुङ्गं नगोत्सङ्गमिवारुरोह ॥

अन्वयः AI असौ कुमारः, मृग-राज-शावः शिला-विभङ्गैः तुङ्गम् नग-उत्सङ्गम् इव, क्लृप्तेन सोपान-पथेन वैदर्भ-निर्दिष्टम् मञ्चम् आरुरोह।
सञ्जीविनीटीका (मल्लिनाथः) वैदर्भेति॥ असौ कुमारो वैदर्भेण भोजेन निर्दिष्टं प्रदर्शितं मञ्चं पर्यङ्कं क्लप्तेन सुविहितेन सोपानपथेन। मृगराजशावः सिंहपोतः। पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः इत्यमरः (अमरकोशः २.५.४० ) । शिलानां विभङ्गैर्भङ्गीस्तुङ्गमुन्नतं नगोत्सङ्गं शैलाग्रमिव। आरुरोह ॥
Summary AI That prince, Aja, ascended the stage designated for him by the king of Vidarbha via a prepared staircase, just as a lion cub climbs a high mountain peak using projecting ledges of rock as steps.
सारांश AI राजकुमार अज विदर्भराज द्वारा निर्देशित सीढ़ियों के मार्ग से मंच पर वैसे ही चढ़े, जैसे सिंह का शावक शिलाखंडों के सहारे ऊंचे पर्वत शिखर पर चढ़ता है।
पदच्छेदः AI
वैदर्भनिर्दिष्टम्वैदर्भनिर्दिष्ट (२.१) indicated by the king of Vidarbha
असौअदस् (१.१) that
कुमारःकुमार (१.१) prince
क्लृप्तेनक्लृप्त (√कॢप्+क्त, ३.१) by the prepared
सोपानपथेनसोपानपथ (३.१) by the staircase-path
मञ्चम्मञ्च (२.१) the stage
शिलाविभङ्गैःशिलाविभङ्ग (३.३) by the projecting rocks
मृगराजशावःमृगराजशाव (१.१) a lion cub
तुङ्गम्तुङ्ग (२.१) a high
नगोत्सङ्गम्नगउत्सङ्ग (२.१) mountain peak
इवइव like
आरुरोहआरुरोह (आ√रुह् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) ascended
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
वै र्भ नि र्दि ष्ट सौ कु मा रः
क्लृ प्ते सो पा थे ञ्चम्
शि ला वि ङ्गै र्मृ रा शा
स्तु ङ्गं गो त्स ङ्ग मि वा रु रो
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.