Loading data... On slow networks this could take a few minutes.
100%

अनेन यूना सह पार्थिवेन
रम्भोरु कच्चिन्मनसो रुचिस्ते ।
सिप्रातरङ्गानिलकम्पितासु
विहर्तुमुद्यानपरम्परासु ॥

अन्वयः AI रम्भोरु! सिप्रातरङ्गानिलकम्पितासु उद्यानपरम्परासु अनेन यूना पार्थिवेन सह विहर्तुं ते मनसः कच्चित् रुचिः अस्ति?
सञ्जीविनीटीका (मल्लिनाथः) अनेनेति॥ रम्भे कदलीस्तम्भाविवोरू यस्याः सा रम्भोरुस्तस्याः संबोधनम्। हे रम्भोरु! ऊरूत्तरपदादौपम्ये (अष्टाध्यायी ४.१.६९ ) इत्यूङ्प्रत्ययः। नदीत्वाद्ध्रस्वः। यूनाऽनेन पार्थिवेन सह। सिप्रा नाम तत्रत्या नदी तस्यास्तरंगाणामनिलेन कम्पितासूद्यानानां परंपरासु पङ्क्तिषु विहर्तुं ते तव मनसो रुचिः कञ्चित्? स्पृहाऽस्ति किमित्यर्थः। अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम् इत्यमरः (अमरकोशः ३.३.३५ )
Summary AI "O you with thighs like plantain stems! Do you have any desire in your heart to roam with this young king in the rows of gardens, which are gently stirred by the breeze from the waves of the Sipra river?"
सारांश AI हे सुंदरी! क्या तुम्हारा मन इस युवा राजा के साथ क्षिप्रा नदी की लहरों से शीतल हुई वायु वाले उद्यानों में विहार करने का इच्छुक है?
पदच्छेदः AI
अनेनइदम् (३.१) with this
यूनायुवन् (३.१) young
सहसह with
पार्थिवेनपार्थिव (३.१) king
रम्भोरुरम्भोरु (८.१) O you with thighs like plantain stems
कच्चित्कच्चित् is there any...?
मनसःमनस् (६.१) of the mind
रुचिःरुचि (१.१) desire
तेयुष्मद् (६.१) your
सिप्रातरङ्गानिलकम्पितासुसिप्रातरङ्गअनिलकम्पित (७.३) in those shaken by the breeze from the waves of the Sipra river
विहर्तुम्विहर्तुम् (वि√हृ+तुमुन्) to sport
उद्यानपरम्परासुउद्यानपरम्परा (७.३) in the series of gardens
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
ने यू ना पा र्थि वे
म्भो रु च्चि न्म सो रु चि स्ते
सि प्रा ङ्गा नि म्पि ता सु
वि र्तु मु द्या म्प रा सु
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.