सङ्ग्रामनिर्विष्टसहस्रबाहु-
रष्टादशद्वीपनिखातयूपः ।
अनन्यसाधारणराजशब्दो
बभूव योगी किल कार्तवीर्यः ॥

अन्वयः AI किल सङ्ग्रामनिर्विष्टसहस्रबाहुः अष्टादशद्वीपनिखातयूपः अनन्यसाधारणराजशब्दः योगी कार्तवीर्यः बभूव।
सञ्जीविनीटीका (मल्लिनाथः) सङ्ग्रामेति॥ सङ्ग्रामेषु युद्धेषु निर्विष्टा अनुभूताः सहस्रं बाहवो यस्य स तथोक्तः। युद्धादन्यत्र द्विभुज एव दृश्यत इत्यर्थः। अष्टादशसु द्वीपेषु निखाताः स्थापिता यूपा येन स तथोक्तः। सर्वक्रतुयाजी सार्वभौमश्चेति भावः। जरायुजादिसर्वभूतरञ्जनादनन्यसाधारणो राजशब्दो यस्य स तथोक्तः। योगी। ब्रह्मविद्वानित्यर्थः। स किल भगवती दत्तात्रेयाल्लब्धयोग इति प्रसिद्धिः। कृतवीर्यस्यापत्यं पुमान् कार्तवीर्यो नाम राजा बभूव किलेति। अयं चास्य महिमा सर्वोऽपि दत्तात्रेयवरप्रसादलब्ध इति भारते(वन.अ.११५;अनु.अ.१५२) दृश्यते ॥
Summary AI Indeed, there was a king named Kartavirya, a yogi, who enjoyed his thousand arms in battle, had sacrificial posts planted across eighteen islands, and for whom the title 'king' was uniquely his own.
सारांश AI ये सहस्त्रबाहु कार्तवीर्य अर्जुन हैं, जिन्होंने अठारह द्वीपों में विजय स्तंभ गाड़े थे। वे एक महान योगी थे और 'राजा' शब्द की महिमा को वास्तव में चरितार्थ करने वाले थे।
पदच्छेदः AI
सङ्ग्रामनिर्विष्टसहस्रबाहुःसङ्ग्रामनिर्विष्टसहस्रबाहु (१.१) he who enjoyed a thousand arms in battle
अष्टादशद्वीपनिखातयूपःअष्टादशद्वीपनिखातयूप (१.१) he who had sacrificial posts planted in eighteen islands
अनन्यसाधारणराजशब्दःअनन्यसाधारणराजशब्द (१.१) for whom the title 'king' was not common to any other
बभूवबभूव (√भू कर्तरि लिट् (परस्मै.) प्र.पु. एक.) was
योगीयोगिन् (१.१) a yogi
किलकिल indeed
कार्तवीर्यःकार्तवीर्य (१.१) Kartavirya
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
ङ्ग्रा नि र्वि ष्ट स्र बा हु
ष्टा द्वी नि खा यू पः
न्य सा धा रा ब्दो
भू यो गी कि का र्त वी र्यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.