Loading data... On slow networks this could take a few minutes.
100%

अस्याङ्कलक्ष्मीर्भव दीर्घबाहो-
र्माहिष्मतीवप्रनितम्बकाञ्चीम् ।
प्रासादजालैर्जलवेणिरम्यां
रेवां यदि प्रेक्षितुमस्ति कामः ॥

अन्वयः AI (हे सुन्दरि!) यदि माहिष्मतीवप्रनितम्बकाञ्चीं प्रासादजालैः जलवेणिरम्यां रेवां प्रेक्षितुं कामः अस्ति, (तर्हि) अस्य दीर्घबाहोः अङ्कलक्ष्मीः भव।
सञ्जीविनीटीका (मल्लिनाथः) अस्येति॥ दीर्घबाहारस्य प्रतीपस्याङ्कलक्ष्मीर्भव। एनं वृणीष्वेत्यर्थः। अनेनायं विष्णुतुल्य इति ध्वन्यते। माहिष्मती नामास्य नगरी। तस्या वप्रः प्राकार एव नितम्बः। तस्य काञ्चीं रशनाभूतां जलानां वेण्या प्रवाहेण रम्याम्। ओघः प्रवाहो वेणी च इति हलायुधः। रेवां नर्मदां प्रासादजालैर्गवाक्षैः। जालं समूह आनायो गवाक्षक्षारकावपि इत्यमरः। प्रेक्षितुं काम इच्छाऽस्ति यदि॥
Summary AI O beautiful one, if you desire to see the river Reva, which serves as a girdle on the hip-like ramparts of Mahishmati and is made lovely by its network of palaces and braided stream, then become the grace of this long-armed king's lap.
सारांश AI यदि तुम माहिष्मती नगरी के महलों से रेवा नदी की लहरों का सौंदर्य देखना चाहती हो, तो इन राजा की पत्नी बनकर उनके वैभव को बढ़ाओ।
पदच्छेदः AI
अस्यइदम् (६.१) of this
अङ्कलक्ष्मीःअङ्कलक्ष्मी (१.१) the grace of his lap
भवभव (√भू कर्तरि लोट् (परस्मै.) म.पु. एक.) become
दीर्घबाहोःदीर्घबाहु (६.१) of the long-armed one
माहिष्मतीवप्रनितम्बकाञ्चीम्माहिष्मतीवप्रनितम्बकाञ्ची (२.१) (the Reva river) which is the girdle on the hip-like ramparts of Mahishmati
प्रासादजालैःप्रासादजाल (३.३) with its network of palaces
जलवेणिरम्याम्जलवेणिरम्या (२.१) charming with its braided stream
रेवाम्रेवा (२.१) the Reva river
यदियदि if
प्रेक्षितुम्प्रेक्षितुम् (प्र√ईक्ष्+तुमुन्) to see
अस्तिअस्ति (√अस् कर्तरि लट् (परस्मै.) प्र.पु. एक.) there is
कामःकाम (१.१) a desire
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
स्या ङ्क क्ष्मी र्भ दी र्घ बा हो
र्मा हि ष्म ती प्र नि म्ब का ञ्चीम्
प्रा सा जा लै र्ज वे णि म्यां
रे वां दि प्रे क्षि तु स्ति का मः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.