यस्यात्मगेहे नयनाभिरामा
कान्तिर्हिमांशोरिव संनिविष्टा ।
हर्म्याग्रसंरूढतृणाङ्कुरेषु
तेजोऽविषह्यं रिपुमन्दिरेषु ॥

अन्वयः AI यस्य आत्मगेहे हिमांशोः इव नयनाभिरामा कान्तिः संनिविष्टा, (तस्यैव) रिपुमन्दिरेषु हर्म्याग्रसंरूढतृणाङ्कुरेषु अविषह्यं तेजः (संनिविष्टम्)।
सञ्जीविनीटीका (मल्लिनाथः) यस्येति॥ हिमांशोः कान्तिश्चन्द्रकिरणा इव नयनयोरभिरामा यस्य सुषेणस्या कान्तिः शोभाऽऽत्मगेहे स्वभवने संनिविष्टा संक्रान्ता। अविषह्यं विसोढुमशक्यं तेजः प्रतापस्तु। हर्म्याग्रेषु धनिकमन्दिरप्रान्तेषु। हर्म्यादि धनिनां वासः इत्यमरः (अमरकोशः २.२.१० ) । संरूढास्तृणाङ्कुरा येषां तेषु। शून्येष्वित्यर्थः। रिपुमन्दिरेषु शत्रुनगरेषु। मन्दिरं नगरे गृहे इति विश्वः। संनिविष्टम्। स्वजनाह्लादकोऽयं द्विषंतपश्चेति भावः ॥
Summary AI In his own palace resides a beauty as pleasing to the eyes as the moon's splendor. In the palaces of his enemies, where grass now grows on the rooftops, resides his unbearable prowess.
सारांश AI इनका वैभव अपने महल में चंद्रमा की चाँदनी के समान सुखद है, किंतु शत्रुओं के उजड़े हुए महलों में वही तेज अत्यंत असहनीय हो जाता है।
पदच्छेदः AI
यस्ययद् (६.१) whose
आत्मगेहेआत्मगेह (७.१) in his own palace
नयनाभिरामानयनअभिराम (१.१) pleasing to the eyes
कान्तिःकान्ति (१.१) splendor
हिमांशोःहिमांशु (६.१) of the moon
इवइव like
संनिविष्टासंनिविष्ट (सम्+नि√विश्+क्त, १.१) resides
हर्म्याग्रसंरूढतृणाङ्कुरेषुहर्म्यअग्रसंरूढतृणअङ्कुर (७.३) on which grass shoots have grown on the palace tops
तेजःतेजस् (१.१) prowess
अविषह्यम्अविषह्य (१.१) unbearable
रिपुमन्दिरेषुरिपुमन्दिर (७.३) in the palaces of his enemies
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
स्या त्म गे हे ना भि रा मा
का न्ति र्हि मां शो रि सं नि वि ष्टा
र्म्या ग्र सं रू तृ णा ङ्कु रे षु
ते जो ऽवि ह्यं रि पु न्दि रे षु
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.