Loading data... On slow networks this could take a few minutes.
100%

यस्यावरोधस्तनचन्दनानां
प्रक्षालनाद्वारिविहारकाले ।
कलिन्दकन्या मथुरां गतापि
गङ्गोर्मिसंसक्तजलेव भाति ॥

अन्वयः AI वारिविहारकाले यस्य अवरोधस्तनचन्दनानां प्रक्षालनात्, मथुरां गता अपि कलिन्दकन्या गङ्गोर्मिसंसक्तजला इव भाति।
सञ्जीविनीटीका (मल्लिनाथः) यस्येति॥ यस्य सुषेणस्य वारिविहारकाले जलक्रीडासमयेऽवरोधानामन्तःपुराङ्गनानां स्तनेषु चन्दनानां मलयजानां प्रक्षालनाद्धेतोः कलिन्दो नाम शैलस्तत्कन्या यमुना। कालिन्दी सूर्यतनया यमुना शमनस्वसा इत्यमरः (अमरकोशः १.१०.३२ ) । मथुरा नामास्य राज्ञो नगरी। तां गतापि। गङ्गाया विप्रकृष्टापीत्यर्थः। मथुरायां गङ्गाभावं सूचयतिअपिशब्दः। कालिन्दीतीरे मथुरा लवणासुरवधकाले शत्रुघ्नेन निर्मास्यतेति वक्ष्यति। तत्कथमधुना मथुरासंभव इति चिन्त्यम्। मथुरा मधुरापुरीति शब्दभेदः। यद्वा, -साम्येति गङ्गाया भागीरथ्या ऊर्मिभिः संसक्तजलेव भाति। धवलचन्दनसंसर्गात्प्रयागादन्यत्राप्यत्र गङ्गासंगतेव भातीत्यर्थः। सितासिते हि गङ्गायमुने इति घण्टापथः ॥
Summary AI During water sports, the Yamuna river, even as it flows towards Mathura, appears as if its waters are mingled with the waves of the Ganga, due to being whitened by the sandalwood paste washed from the breasts of his harem ladies.
सारांश AI जब इनके अंतःपुर की स्त्रियाँ यमुना में जलक्रीड़ा करती हैं, तब उनके स्तनों से धुला चंदन काले जल को गंगा के समान श्वेत बना देता है।
पदच्छेदः AI
यस्ययद् (६.१) whose
अवरोधस्तनचन्दनानाम्अवरोधस्तनचन्दन (६.३) of the sandalwood paste on the breasts of the harem ladies
प्रक्षालनात्प्रक्षालन (५.१) from the washing away
वारिविहारकालेवारिविहारकाल (७.१) during the time of water sports
कलिन्दकन्याकलिन्दकन्या (१.१) the daughter of Kalinda (the Yamuna river)
मथुराम्मथुरा (२.१) to Mathura
गतागत (√गम्+क्त, १.१) having gone
अपिअपि even
गङ्गोर्मिसंसक्तजलागङ्गाऊर्मिसंसक्तजला (१.१) with its water mingled with the waves of the Ganga
इवइव as if
भातिभाति (√भा कर्तरि लट् (परस्मै.) प्र.पु. एक.) shines
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
स्या रो स्त न्द ना नां
प्र क्षा ना द्वा रि वि हा का ले
लि न्द न्या थु रां ता पि
ङ्गो र्मि सं क्त ले भा ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.